This page has been fully proofread twice.

मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ
धत्तो मुखे तु तव दृक्तिलकाञ्जनाभाम् ।
दोषावितः क्वचन मेलनतो गुणत्वं
वक्तुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ॥ १२४ ॥
 
----------------

 
प्रौढोक्त्यलंकारः ६३
 
प्रौढोक्तिरुत्क[‌^१]र्षाहेतौ तद्धेतुत्वप्रकल्पनम् ।
कचाः कलिन्दजातीरतमालस्तोममेचकाः ॥ १२५ ॥
 
कार्यातिशयाहेतौ तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः । यथा तमालगतनैर्मल्यातिशयाहेतौ यमुनातटरोहणे तद्धेतुत्वप्रकल्पनम् । यथावा --
 
कल्पतरुकामदोग्ध्रीचिन्तामणिधनदशङ्खानाम् ।
रचितो रजोभरपयस्तेजःश्वासान्तराम्बरैरेषः ॥
 
अत्र कल्पवृक्षाद्येकैकवितरणातिशायिवर्णनीयराजवितरणातिशयाहेतौ कल्पवृक्षपरागादिरूपपञ्चभूतनिर्मितत्वेन तद्वेधेतुत्वप्रकल्पनं प्रौढोक्तिः ॥ १२५ ॥
 
--------------

 
संभावनालंकारः ६४
 
संभा[‌^२]वना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये ।
यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥ १२६ ॥
 
[commentary]
 
सर्व इति ॥ मालिन्यमिति ॥ मधुलिट् भ्रमरः कलङ्कश्चैतावब्जशशिनोर्मालिन्यं धत्तः कुरुतः । तव मुखे तु दृक् च तिलकाञ्जनं च तयोराभां शोभां धत्त इत्यनुषज्यते । अञ्जनाभे इति पाठे द्वितीयाद्विवचनम् । उक्तमर्थं सामान्येन समर्थयति । दोषावपि क्वचित् मेलनतो मिथो मिलनात् गुणत्वमितः प्राप्नुत इति । कथमेतत्तत्राह । हि यतः वक्तुर्वचसि भ्रमविप्रलम्भौ भ्रान्तिप्रतारणे गुणौ भवतः । घटवति घटाभावं निर्णीय परप्रतारणाय घटोऽस्तीति प्रयुक्ते वाक्ये प्रमाजनकत्वात्तयोर्गुणत्वमिति भावः ॥ १२४ ॥ इति विकस्वरालंकारः ॥ ६२ ॥
 
प्रौढोक्तिरिति ॥ उत्कर्षस्याऽहेतावुत्कर्षहेतुत्वकल्पनं प्रौढोक्तिः । कलिन्दजा यमुना । स्तोमः समूहः । मेचका:काः श्यामाः । रोहणे उद्भवे ॥ कल्पेति ॥ एष राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः पञ्चभी रचित इत्यन्वयः । धनदः कुबेरः । शङ्खो निधिविशेषः । रजोभरः परागसमूहः । पयो दुग्धम् । श्वासः प्रसिद्धः । अन्तराम्बरं शङ्खाभ्यन्तरमाकाशम् । अतिशायीत्यग्रिमवितरणेनान्वितम् । अहेतौ पञ्चनिर्मितत्वे इति सामानाधिकरण्येनान्वयः ॥ १२५ ॥ इति प्रौढोत्त्यलंकारः ॥ ६३ ॥
 
संभावनेति ॥ ऊहस्तर्कः ॥ कस्तूरिकेति ॥ अहं यदि सृष्टिकर्ता स्यां
 
[‌^१] 'रुत्कर्षहेतौ'.
[‌^२] 'संभावनं यदित्थं'.