This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ विकखविकस्वरालंकारः ६२

 
यस्मिन्विशेषसामान्यविशेषाः स विकस्वर: ।
स न जिग्ये महान्तो हि दु[‌^१]र्धर्षाः सागरा इव ॥ १२४ ॥
 
यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरि-ष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविधया - विन्यस्यते तत्र
विकस्वरालंकारः ६२
यस्मिन्विशेषसामान्यविशेषाः स विकस्वर: ।
सन जिग्ये महान्तो हि दुर्धर्षाः साग
। उत्तरा इव ॥१२४॥
यत्र कस्यचिद्विशेषस्य समर्थनार्थ सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरि-
प्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविधया
IT विन्यस्यते तत्र विकस्वरालंकारः । उत्तरार्ध
र्धं यथाकथंचिदुदाहरणम् ।
दं तु व्यक्तमुदाहरणम् ।
 

 
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।

एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥

 
इदमुपमानरीत्या विशेषान्तरस्य व्यसने उदाहरणम् । अर्थान्तरन्यासविधया यथा -
या यथा
-
१३४
 
+
 

 
कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयं
 

माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् ।

धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां

नेपालक्षितिपालभालपतिते पङ्के न शङ्केत कः ॥
 

 
[commentary]
 
इत्
यन्वयः । अत्रापि पूर्वार्धोक्तमप्रकृतसामान्यमुत्तरार्धोक्तेन प्रकृतेन विशेषेण
मर्थितम् ॥ १२२ ॥ १२३ ॥ इत्यर्थान्तरन्यासालंकारः ॥ ६१ ॥
 

 
यस्मिन्निति ॥ यस्मिन्काव्ये इत्यर्थात् । निबध्यत इति शेषः । समर्थ्यसम-
र्थकभावापन्नत्वं तु न लक्षणे निवेशनीयम् । तद्विना चमत्काराभावेन चमत्का-
रे
रित्वविशेषणमवश्यवक्तव्येनैवानतिप्रसङ्गात् । एवमर्थान्तरन्यासलक्षणेऽपि बोध्य-
[
म् ॥ स नेति ॥ स प्रकृतो राजा न जिग्ये न जितोऽर्थात्परैरिति शेषः ।
त्समर्थनम् । महान्तो हि दुर्धर्षा अनाक्रमणीया इति सामान्येन तस्यापि सागरा
वेति विशेषोपमयेति ज्ञेयम् । प्रसिद्धेरल्पत्वात्तत्रापरितोषो बोध्यः ॥ यथाकथं-
चे
चिदिति ॥ महतामनाक्रमणीयत्वस्यातिप्रसिद्धत्वेन तत्समर्थनापेक्षाभावाच्चन्द्रा-
गे
लोकगतमेतत्रन्न समञ्जसमिति भावः । इदं वक्ष्यमाणम् ॥ व्यक्तमिति ॥ गुण-
मुदाये एकस्य दोषस्यानाकलनमनतिप्रसिद्धतया समर्थनापेक्षमिन्दोरित्यादि-
त्रे
विशेषेण समर्थ्यत इत्यतः स्फुटमित्यर्थः ॥ कर्णेति ॥ हे काक, कर्णयोररुन्तुदं
गो
पीडाजनकं रसितं शब्दितमन्तरेण विना स्वयं मकरन्दः पुष्परसस्तच्छालिनं
माकन्दमाम्रवृक्षं गाहस्व आश्रय । इहाम्रतरौ त्वां वयं कोकिलं मन्महे जानी-
हे । यतः स्थलवैभवेन स्थानमाहात्म्येन कतिचिद्वस्तूनि धन्यानि भवन्तीति
सामान्येन पूर्वोक्तविशेषसमर्थनम् । अत्रापि तदाकाङ्क्षायां विशेषरूपमर्थान्तरं

न्
यसति । नेपालभूमिपालस्य भाले पतिते पङ्के कस्तूरिकां को न शङ्केत, अपितु
 

 
[‌^
] 'दुर्दर्शा:'.