This page has been fully proofread twice.

नापेक्षाविरहात् । नहि 'तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्वणशर्वरीश्वरः' इत्यादिषु समर्थनं दृश्यते ।
 
'न विषेण न शस्त्रेण नाग्निना नच मृत्युना ।
अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥'
 
इत्यादिकाव्यलिङ्गविषयेषु समर्थनापेक्षाविरहेऽप्यप्रतीकारपारुष्या इत्यादिना समर्थनदर्शनाच्च । नहि तत्र स्त्रीणां विषादिनिर्मितत्वाभावप्रतिपादनं समर्थनसापेक्षं प्रसिद्धत्वात् । तस्मादुभयतो व्यभिचारात्समर्थनापेक्षसमर्थने काव्यलिङ्गं तन्निरपेक्षसमर्थनेऽर्थान्तरन्यास इति न विभागः, किंतु समर्थ्यसमर्थकयोः सामान्य विशेषसंबन्धेऽर्थान्तरन्यासस्तदितरसंबन्धे काव्यलिङ्गमित्येव व्यवस्थावधारणीया । प्रपञ्चश्चित्रमीमांसायां द्रष्टव्यः ।
 
एवमप्रकृतेन प्रकृतसमर्थनमुदाहृतम् । प्रकृतेनाप्रकृतसमर्थनं यथा --
 
यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः ।
तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥
 
यथावा --
 
दानं ददत्यपि जलैः सहसाधिरूढे
को विद्यमानगतिरासितुमुत्सहेत ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षो-
र्मङ्क्षूदपाति परितः पटलैरलीनाम् ॥ १२२ ॥ १२३ ॥
 
[commentary]
 
न विषेणेत्यादेः स्त्रियः कृता इत्यनेनान्वयः अपितु स्त्रीभिरेव । यतः प्रतीकाररहितं पारुष्यं क्रौर्यं यासां तथाभूताः । उभयतोऽन्वयव्यतिरेकाभ्याम् । समर्थनापेक्षायामपि तदास्यदास्येऽपीत्यादौ तदभावात् । न विषेणेत्यादावपेक्षाविरहेऽपि समर्थनसत्त्वात् ॥ अप्रकृतेनेति ॥ आद्ये महात्मनां सर्वसुकरत्वेनाप्रकृतेन सामान्येन हनुमदब्धितरणस्य प्रकृतविशेषस्य समर्थनं द्वितीये पुष्पमालासूत्रवृत्तान्तेनाप्रकृतेन विशेषरूपेण प्रकृतस्य गुणवत्सङ्गप्रयुक्तपूज्यत्वस्य सामान्यरूपस्य समर्थनमित्यर्थः ॥ यदुच्यत इति ॥ हे पार्वति, रूपमाकृतिसौन्दर्यं पापवृत्तये दुष्टाचरणाय न भवति 'यत्राकृतिस्तत्र गुणा वसन्ति' इति न्यायादिति यदुच्यते तद्वचनमव्यभिचारि यथार्थम् । तथाहि उदारं रमणीयं दर्शनं यस्यास्तथाभूते पार्वति, तव शीलमाचरणं तपस्विनामप्युपदेशरूपतां प्राप्तमिति प्रकृतेन विशेषेणाप्रकृतस्य सामान्यस्य समर्थनम् ॥ दानमिति ॥ दानं वितरणं मदजलं च । जलैरुदकैर्जडैश्च । लडयोरभेदात् । अधिरूढे आक्रान्ते सति । विद्यमानगतिः सगतिको बुद्धिमांश्च कः आसितुं स्थातुमुत्सहेत
शक्नुयात् । यस्मान्मिमङ्क्षोर्मज्जनं कर्तुमिच्छोर्दन्तिनो गजस्य कटो गण्ड एव कटाहस्तस्य तटादग्रादलीनां पटलैः समूहैः परितो मङ्क्षु शीघ्रमुदपाति उत्पतितमि-