This page has been fully proofread once and needs a second look.

इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्षयः ।

स्वर्णभ्राजिष्णुभानुत्वप्रभृतीव महीभुजः ॥ ११ ॥
 

 
इति श्रीजय देवकविवरविरचिते चन्द्रालोके लक्षण निरूपणो नाम तृतीयो मयूखः ॥
 

 
--------------
 
चतुर्थो मयूखः ४

 
अथ गुण:-
णः --
 
श्लेषो विघटमानार्थघटमानत्ववर्णनम् ।
 

स तु शब्दैः सजातीयैः शब्दैर्बन्धः सुखावहः ॥ १॥

 
उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।

भीतया मानवत्येव श्रियाश्लिष्टं हरिं स्तुमः ॥ २ ॥

 
यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते ।

सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥ ३ ॥

 
समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा ।

श्यामला कोमला बाला मरणं शरणं गता ॥ ४ ॥

 
समाधिरर्थमहिमा लसद्धनरसात्मना ।

स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ ५॥

 
माधुर्यं पुनरुक्तस्य वैचित्र्यचारुतावहम् ।

वयस्य पश्य पश्यास्य चञ्चलं लोचनाञ्चलम् ॥ ६॥

 
ओजः स्यात्प्रौढिरर्थस्य सङ्क्षेपो वातिभूयसः ।

रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत् ॥ ७ ॥

 
सौकुमार्यमपारुण्ष्यं पर्यायपरिवर्तनात् ।
 

स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥ ८ ॥

 
उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङ्मता ।

मानं मुञ्च प्रिये किंचिल्लोचनं समुदञ्चय ॥ ९ ॥

 
शृ
ङ्कागारे च प्रसादे च कान्त्यर्थं व्यक्तिसंग्रहः ।

अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ १० ॥

 
तिलकाद्यमिव स्त्रीणां विदग्धहृदयंगमम् ।

व्यतिरिक्तमलंकारप्रकृतेर्भूषणं गिराम् ॥ ११ ॥

 
विचित्रलक्षणन्यासो निर्वाहः प्रौढिरौचिती ।

शास्त्रान्तररहस्योक्तिः संग्रहो दिकू प्रदर्शिता ॥ १२ ॥
 

 
इति श्रीजयदेवकविवरविरचिते चन्द्रालोके गुणनिरूपणो नाम चतुर्थो मयूखः ॥
 

 
-------------------