2023-02-17 12:59:03 by ambuda-bot
This page has not been fully proofread.
कुवलयानन्दः । [अर्थान्तरन्यासालंकारः
'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥
दिवाकराद्वक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ॥'
इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थत्वमस्तीति । वस्तु-
तस्तु प्रायोवादोऽयम् । अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थ-
नानपेक्षत्वेऽपि सामान्यं विशेषेण समर्थनमपेक्षत एव 'निर्विशेषं न सामान्य -
मिति न्यायेन 'बहूनामप्यसाराणां संयोगः कार्यसाधकः' इत्यादि सामान्यस्य
'तृणैरारभ्यते रजस्तया नागोऽपि बध्यते' इत्यादि संप्रतिपन्नविशेषावतरणं
विना बुद्धौ प्रतिष्ठितत्वासंभवात् ॥
१३२
नच तत्र सामान्यस्य 'कासां न सौभाग्यगुणोऽङ्गनाना'मित्यादि विशेषसम-
र्थनार्थसामान्यस्येव लोकसंप्रतिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिष्ठि-
तत्वं संभवतीति श्लोके तन्त्र्यसनं नापेक्षितमस्तीति वाच्यम् । सामान्यस्य
सर्वत्र लोकसंप्रतिपनत्व नियमाभावात् । नहि यो यो धूमवान् स सोऽग्नि-
मानिति व्यातिरूपसामान्यस्य लोकसंप्रतिपन्नतया यथा महानस इति त
द्विशेषरूपदृष्टान्तानुपादानसंभवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेऽपि
तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं संभवति । न चैवं सामान्येन विशेषस-
मर्थनस्थलेऽपि क्वचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारो-
हाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम् । इष्टापत्तेः, अत्रैव विषये
विकस्वरालंकारस्यानुपदमेव दर्शयिष्यमाणत्वात् । किंच काव्यलिङ्गेऽपि न
सर्वत्र समर्थनसापेक्षत्वनियमः । 'चिकुरप्रकरा जयन्ति ते' इत्यत्र तदभावा-
दुपमानवस्तुपु वर्णनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समर्थ-
न्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थत्वं नास्तीति संवन्धः । शरदा शशाङ्के
उपगूढे आलसति । अथानन्तरम् शान्तास्तडिद्रूपा कटाक्षा यस्याः सा
प्रावृ ययौ गतवती । उक्तं विशेषरूपमर्थ सामान्यरूपेणार्थान्तरेण समर्थयति ।
परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति । पयोधराः कुचा
मेघाच ॥ दिवाकरादिति ॥ कुमारसंभवे हिमालयवर्णनम् । यो हिमालयः ।
ममत्वं मदीयताबुद्धिः । शिरो मस्तकं शिखरं च ॥ समर्थनार्थित्वं समर्थनापेक्ष-
त्वम् । अयमर्थान्तरन्यासे समर्थनानपेक्षत्वरूपः । सामान्यस्येत्यस्य बुद्धौ प्रति-
ष्ठितत्वासंभवादित्यनेनान्वयः ॥ संप्रतिपन्नेति ॥ वक्तृश्रोतृसंमतेत्यर्थः । विशे-
षावतरणं विशेषावगमम् । तत्र वाहूनामित्यादौ सामान्यस्येति विशेषावतरणं
विनैव बुद्धौ प्रतिष्टितत्वं संभवतीत्यग्रिमेणान्वितम् । तयसनं तृणैरित्यादि विशेष-
न्यसनम् । नन्वेवमप्यर्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्यलिङ्गे तु सर्वत्र
सेत्यस्तु भेद इत्याशयाह
– किंचेति ॥ कविकुलक्षुण्णत्वेन कविसमूहाभ्यस्त -
त्वेन । तदास्यदास्ये नलमुखदास्ये । पर्वणि पूर्णिमायां भवः पार्वणः शर्वरीश्वरश्चन्द्रः
-