This page has been fully proofread twice.

'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥
दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ॥'
 
इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थत्वमस्तीति । वस्तुतस्तु प्रायोवादोऽयम् । अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थनानपेक्षत्वेऽपि सामान्यं विशेषेण समर्थनमपेक्षत एव 'निर्विशेषं न सामान्यमिति न्यायेन 'बहूनामप्यसाराणां संयोगः कार्यसाधकः' इत्यादि सामान्यस्य 'तृणैरारभ्यते रजस्तया नागोऽपि बध्यते' इत्यादि संप्रतिपन्नविशेषावतरणं विना बुद्धौ प्रतिष्ठितत्वासंभवात् ॥
 
नच तत्र सामान्यस्य 'कासां न सौभाग्यगुणोऽङ्गनाना'मित्यादि विशेषसमर्थनार्थसामान्यस्येव लोकसंप्रतिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिष्ठितत्वं संभवतीति श्लोके तन्न्यसनं नापेक्षितमस्तीति वाच्यम् । सामान्यस्य सर्वत्र लोकसंप्रतिपन्नत्वनियमाभावात् । नहि यो यो धूमवान् स सोऽग्निमानिति व्याप्तिरूपसामान्यस्य लोकसंप्रतिपन्नतया यथा महानस इति तद्विशेषरूपदृष्टान्तानुपादानसंभवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेऽपि तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं संभवति । न चैवं सामान्येन विशेषसमर्थनस्थलेऽपि क्वचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारोहाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम् । इष्टापत्तेः, अत्रैव विषये विकस्वरालंकारस्यानुपदमेव दर्शयिष्यमाणत्वात् । किंच काव्यलिङ्गेऽपि न सर्वत्र समर्थनसापेक्षत्वनियमः । 'चिकुरप्रकरा जयन्ति ते' इत्यत्र तदभावादुपमानवस्तुषु वर्णनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समर्थ -
 
[commentary]
 
न्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थत्वं नास्तीति संबन्धः । शरदा शशाङ्के उपगूढे आलिङ्गिते सति । अथानन्तरम् शान्तास्तडिद्रूपा कटाक्षा यस्याः सा प्रावृट् ययौ गतवती । उक्तं विशेषरूपमर्थं सामान्यरूपेणार्थान्तरेण समर्थयति । परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति । पयोधराः कुचा मेघाश्च ॥ दिवाकरादिति ॥ कुमारसंभवे हिमालयवर्णनम् । यो हिमालयः । ममत्वं मदीयताबुद्धिः । शिरो मस्तकं शिखरं च ॥ समर्थनार्थित्वं समर्थनापेक्षत्वम् । अयमर्थान्तरन्यासे समर्थनानपेक्षत्वरूपः । सामान्यस्येत्यस्य बुद्धौ प्रतिष्ठितत्वासंभवादित्यनेनान्वयः ॥ संप्रतिपन्नेति ॥ वक्तृश्रोतृसंमतेत्यर्थः । विशेषावतरणं विशेषावगमम् । तत्र बाहूनामित्यादौ सामान्यस्येति विशेषावतरणं विनैव बुद्धौ प्रतिष्ठितत्वं संभवतीत्यग्रिमेणान्वितम् । तन्न्यसनं तृणैरित्यादिविशेषन्यसनम् । नन्वेवमप्यर्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्यलिङ्गे तु सर्वत्र सेत्यस्तु भेद इत्याशङ्क्याह -- किंचेति ॥ कविकुलक्षुण्णत्वेन कविसमूहाभ्यस्तत्वेन । तदास्यदास्ये नलमुखदास्ये । पर्वणि पूर्णिमायां भवः पार्वणः शर्वरीश्वरश्चन्द्रः