This page has not been fully proofread.

अर्थान्तरन्यासालंकारः६१] अलंकारचन्द्रिकासहितः ।
 
ve
 
!
 
१३१
 
अर्थान्तरन्यासालंकारः ६१
उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
हनुमानब्धिमतरद्दुष्करं
गुणवद्वस्तुसंसर्गाद्याति
 
किं महात्मनाम् ॥ १२२ ॥
स्वल्पोऽपि गौरवम् ।
 
पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते ॥ १२३ ॥
 
सामान्य विशेषयोर्द्वयोरप्युक्तिरर्थान्तरन्यासस्तयोश्चैकं प्रस्तुतमन्यदप्रस्तुतं
भवति । ततश्च विशेषे प्रस्तुते तेन सहाप्रस्तुतसामान्यरूपस्य सामान्ये प्रस्तुते
तेन सहाप्रस्तुत विशेषरूपस्यार्थान्तरस्य न्यसनमर्थान्तरन्यास इत्युक्तं भवति ।
तत्राद्यस्य द्वितीयार्धमुदाहरणं द्वितीयस्य द्वितीयश्लोकः । नन्वयं काव्यलि-
ङ्गानातिरिच्यते । तथाहि । उदाहरणद्वयेऽप्यप्रस्तुतयो: सामान्यविशेषयोरु-
क्तिः प्रस्तुतयोर्विशेषसामान्ययोः कथमुपकरोतीति विवेक्तव्यम् । नहि सर्व-
थैव प्रस्तुतानन्वय्यप्रस्तुताभिधानं युज्यते । न तावदप्रस्तुत प्रशंसायामिव
प्रस्तुतव्यञ्जकतया, प्रस्तुतयोरपि विशेषसामान्ययोः स्वशब्दोपात्तत्वात् ।
नाप्यनुमानालंकार इव प्रस्तुतप्रतीतिजनकतया, तद्वदिह व्याप्तिपक्षधर्मता-
द्यभावात् । नापि दृष्टान्तालंकार इव उपमानतया,
 
'विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः ।
नवतरुभङ्गध्वनिरिव हरिनिद्वातस्करः करिणः ॥'
इत्यादिषु सामान्ये विशेषस्योपमानत्वदर्शनेऽपि विशेषे सामान्यस्य क्वचि-
दपि तददर्शनात्, उपमानतया तदन्वये सामञ्जस्याप्रतीतेश्च । तस्मात्प्रस्तु-
तसमर्थक तयैवाप्रस्तुतस्योपयोग इहापि वक्तव्यः । ततश्च वाक्यार्थहेतुकं का-
व्यलिङ्गमेवात्रापि स्यान्न त्वलंकारान्तरस्यावकाश इति चेत् । अत्र केचित् ।
समर्थनसापेक्षस्यार्थस्य समर्थने काव्यलिङ्गं निरपेक्षस्यापि प्रतीतिवैभवात्स-
मर्थनेऽर्थान्तरन्यासः । नहि यवन्नेत्रसमानकान्तीत्यादिकाव्यलिङ्गोदाहरणे-
विव,
 
प्रस्तुतव्यञ्जकतयेति ॥ अप्रस्तुताभिधानं युज्यत इत्यनुषज्यते । एवम-
ग्रेऽपि ॥ विस्रब्धेति ॥ खलस्य विश्वस्तघातरूपो दोषः स्वस्यैव वधाय भवति ।
यतो वीराणां कोपकारकः । सिंहनिद्रापहारी नवतरुभङ्गजन्यध्वनिः करिणो वधाय
यथेत्यर्थः । तददर्शनादुपमानत्वादर्शनात् । ननु महापुरुषाकृतिरिव गम्भीरेयम-
स्याकृतिरित्यादौ सामान्यस्याप्युपमानता दृष्टेत्यरुचेराह - उपमानेति ॥ इवा-
द्यभावात्तात्पर्याभावाच्चोपमानतयाऽन्वयस्य सामञ्जस्येनाप्रतीते रित्यर्थः । इहापी-
त्यपिना काव्यलिङ्ग समुच्चयः । प्रतीतिवैभवात्प्रतीतिदार्ढ्यरूपप्रयोजनवशात् । प्र
योजनस्यापि हेतुत्वविवक्षया पञ्चमी ॥ उक्तवैलक्षण्यमुदाहरणनिष्ठतया दर्शयति-
नहीत्यादिना ॥ इत्यादिकाव्यलिङ्गोदाहरणेष्विव ॥ अथेति ॥ अथेत्याद्यर्था-
१ ' दुस्तर किं'. २ 'नुसंगेन'.