2023-04-26 12:50:35 by Bharadwajraki
This page has been fully proofread twice.
अर्थान्तरन्यासालंकारः ६१
उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
हनुमानब्धिमतर[^१]द्दुष्करं किं महात्मनाम् ॥ १२२ ॥
गुणवद्वस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम् ।
पुष्प[^२]मालानुषङ्गेण सूत्रं शिरसि धार्यते ॥ १२३ ॥
सामान्यविशेषयोर्द्वयोरप्युक्तिरर्थान्तरन्यासस्तयोश्चैकं प्रस्तुतमन्यदप्रस्तुतं भवति । ततश्च विशेषे प्रस्तुते तेन सहाप्रस्तुतसामान्यरूपस्य सामान्ये प्रस्तुते तेन सहाप्रस्तुत विशेषरूपस्यार्थान्तरस्य न्यसनमर्थान्तरन्यास इत्युक्तं भवति । तत्राद्यस्य द्वितीयार्धमुदाहरणं द्वितीयस्य द्वितीयश्लोकः । नन्वयं काव्यलिङ्गानातिरिच्यते । तथाहि । उदाहरणद्वयेऽप्यप्रस्तुतयोः सामान्यविशेषयोरुक्तिः प्रस्तुतयोर्विशेषसामान्ययोः कथमुपकरोतीति विवेक्तव्यम् । नहि सर्वथैव प्रस्तुतानन्वय्यप्रस्तुताभिधानं युज्यते । न तावदप्रस्तुत प्रशंसायामिव प्रस्तुतव्यञ्जकतया, प्रस्तुतयोरपि विशेषसामान्ययोः स्वशब्दोपात्तत्वात् । नाप्यनुमानालंकार इव प्रस्तुतप्रतीतिजनकतया, तद्वदिह व्याप्तिपक्षधर्मताद्यभावात् । नापि दृष्टान्तालंकार इव उपमानतया,
'विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः ।
नवतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥'
इत्यादिषु सामान्ये विशेषस्योपमानत्वदर्शनेऽपि विशेषे सामान्यस्य क्वचिदपि तददर्शनात्, उपमानतया तदन्वये सामञ्जस्याप्रतीतेश्च । तस्मात्प्रस्तुतसमर्थकतयैवाप्रस्तुतस्योपयोग इहापि वक्तव्यः । ततश्च वाक्यार्थहेतुकं काव्यलिङ्गमेवात्रापि स्यान्न त्वलंकारान्तरस्यावकाश इति चेत् । अत्र केचित् । समर्थनसापेक्षस्यार्थस्य समर्थने काव्यलिङ्गं निरपेक्षस्यापि प्रतीतिवैभवात्समर्थनेऽर्थान्तरन्यासः । नहि यत्वन्नेत्रसमानकान्तीत्यादिकाव्यलिङ्गोदाहरणेष्विव,
[commentary]
प्रस्तुतव्यञ्जकतयेति ॥ अप्रस्तुताभिधानं युज्यत इत्यनुषज्यते । एवमग्रेऽपि ॥ विस्रब्धेति ॥ खलस्य विश्वस्तघातरूपो दोषः स्वस्यैव वधाय भवति । यतो वीराणां कोपकारकः । सिंहनिद्रापहारी नवतरुभङ्गजन्यध्वनिः करिणो वधाय यथेत्यर्थः । तददर्शनादुपमानत्वादर्शनात् । ननु महापुरुषाकृतिरिव गम्भीरेयमस्याकृतिरित्यादौ सामान्यस्याप्युपमानता दृष्टेत्यरुचेराह -- उपमानेति ॥ इवाद्यभावात्तात्पर्याभावाच्चोपमानतयाऽन्वयस्य सामञ्जस्येनाप्रतीतेरित्यर्थः ।इहापीत्यपिना काव्यलिङ्गसमुच्चयः । प्रतीतिवैभवात्प्रतीतिदार्ढ्यरूपप्रयोजनवशात् । प्रयोजनस्यापि हेतुत्वविवक्षया पञ्चमी ॥ उक्तवैलक्षण्यमुदाहरणनिष्ठतया दर्शयति --
नहीत्यादिना ॥ इत्यादिकाव्यलिङ्गोदाहरणेष्विव ॥ अथेति ॥ अथेत्याद्यर्था-
[^१] 'दुस्तररं किं'.
[^२] 'नुसंगेन'.
उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
हनुमानब्धिमतर[^१]द्दुष्करं किं महात्मनाम् ॥ १२२ ॥
गुणवद्वस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम् ।
पुष्प[^२]मालानुषङ्गेण सूत्रं शिरसि धार्यते ॥ १२३ ॥
सामान्यविशेषयोर्द्वयोरप्युक्तिरर्थान्तरन्यासस्तयोश्चैकं प्रस्तुतमन्यदप्रस्तुतं भवति । ततश्च विशेषे प्रस्तुते तेन सहाप्रस्तुतसामान्यरूपस्य सामान्ये प्रस्तुते तेन सहाप्रस्तुत

[^१] 'दुस्त
[^२] 'नुसंगेन'.