This page has not been fully proofread.

१३०
 
कुवलयानन्दः । [ काव्यलिङ्गालंकारः ६०
 
वेकित्वाभिप्रायगर्भम् । विदुषीत्यस्य प्रतिनिर्देश्यत्वात्रिलोचन इति च कन्द
र्पदाहकतृतीयलोचनत्वाभिप्रायगर्भम् । कन्दर्पजयोपयोगित्वात्तस्य । सत्यम्
तथापि न तयोः परिकर एव किंतु तदुत्थापितं काव्यलिङ्गमपि ॥
 
प्रतीयमानाविवेकविशिष्टेन पशुनाप्यपुरस्कृतत्वस्या नेकपदार्थस्य प्रतीयमा
नकन्दर्पदाहकतृतीय लोचनविशिष्टस्य शिवस्य चित्ते संनिधानस्य च वाक्या
र्थस्य वाच्यस्यैव हेतुभावात् । नहि तयोर्वाच्ययोर्हेतुभावे ताभ्यां प्रतीयमानं
मध्ये किंचिद्वारमस्ति । यथा सर्वाशुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे
सर्वाशुचिनिधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्यासंरक्षणीयत्वम् ।
तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधया तत्तद्वाक्यार्थेन प्रतीयमानं
नाहं व्यास इत्यादि । तस्मात्पशुनेत्यत्र त्रिलोचन इत्यत्र च प्रतीयमानं वाच्य-
स्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादकतया काव्यलिङ्गस्याङ्गमेव ।
यथा – 'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरम्' इत्यनेकवाक्यार्थ-
हेतुककाव्य लिङ्गोदाहरणे त्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरशशिहंसवि-
शेषणानि तेषां वाक्यार्थानां हेतुभावोपपादकानीति । तत्र वाक्यार्थहेतुकका
व्यलिङ्गे पदार्थहेतुककाव्यलिङ्गमङ्गमिति न तयोः काव्यलिङ्गोदाहरणत्वे काचि-
दनुपपत्तिः ॥ १२१ ॥
 
-
 
-
 
ऽर्थो व्यङ्ग्योऽर्थः ॥ प्रतिनिर्देश्यत्वादिति ॥ निर्दिश्यते उच्चार्यत इति निर्दे-
शः शब्दः तेन । विपरीतार्थशव्दत्वादित्यर्थः । तस्य तादृशतृतीयलोचनत्वस्य ।
तथाचोभयत्र परिकरालंकारसत्त्वात्काव्य लिङ्गोदाहरणत्वमनुपपत्रमिति भावः ।
तयोः पशुनेत्याद्युक्तोदाहरणयोः । तदुत्थापितं परिकरोपपादितम् । व्यङ्ग्यस्य हे-
तुकोटावेवानुप्रवेशादिति भावः ॥ एतदेव विवृणोति - प्रतीयमानेति ॥ वाच्य-
स्यैवेत्येवकारसूचितं व्यङ्ग्यद्वारकत्वं नहीत्यादिना विवृतम् । तदयमर्थः – यदि
पश्वादिपदव्यङ्ग्यं केशपाशसाम्याभावादेरर्थस्य साक्षादुपपादकं स्यात्तदात्र परिकर
एव स्यान्न काव्यलिङ्गम् । न त्वेवमस्ति । पशुपदप्रतीताविवेकित्वमात्रेण साम्या-
भावस्योपपादनासंभवात् । किंतु तद्विशिष्टपशुपुरस्कृतत्वाभाव एव साक्षादुपपा-
दक इति तत्कोटिनिविष्टं व्यङ्ग्यं काव्यलिङ्गरूपस्य तस्याङ्गमेव । व्यक्त्यान्तरं तु
नोक्त काव्य लिङ्गगम्यमर्थोपपादकमस्तीति निराबाधमेव काव्य लिङ्गमिति । ननु
स्वयमन्योपपादकस्य काव्यलिङ्गस्याप्युपपादकं क्व दृष्टमित्याशयोदाहरति-
यत्त्वन्नेत्रेति ॥ एतत्प्रतीपालंकारे प्रागुदाहृतम् ॥ अनेकवाक्यार्थहेतुके-
ति ॥ पूर्वपादत्रयवाक्यार्थत्रयस्य चतुर्थपादार्थहेतुत्वमिति ज्ञेयम् ॥ हेतुभावो-
पपादकानीति ॥ इन्दीवरस्य नेत्रसमानकान्तित्वं विना पटादेरिव तददर्शन-
स्य दैवगतकान्तासादृश्यविनोदासहिष्णुत्वे हेतुत्वासंभवादिति भावः । समाहित
मर्थमुपसंहरति — इतीति ॥ तयोः पशुनापीति मञ्चित्तेऽस्तीत्येतयोः ॥ १२१ ॥
इति काव्यलिङ्गालंकारः ॥ ६० ॥
 
B