2023-04-26 12:42:17 by Bharadwajraki
This page has been fully proofread twice.
वेकित्वाभिप्रायगर्भम् । विदुषीत्यस्य प्रतिनिर्देश्यत्वात्त्रिलोचन इति च
कन्दर्पदाहकतृतीयलोचनत्वाभिप्रायगर्भम् । कन्दर्पजयोपयोगित्वात्तस्य । सत्यम् तथापि न तयोः परिकर एव किंतु तदुत्थापितं काव्यलिङ्गमपि ॥
प्रतीयमानाविवेकविशिष्टेन पशुनाप्यपुरस्कृतत्वस्यानेकपदार्थस्य
प्रतीयमानकन्दर्पदाहकतृतीयलोचनविशिष्टस्य शिवस्य चित्ते संनिधानस्य च वाक्यार्थस्य वाच्यस्यैव हेतुभावात् । नहि तयोर्वाच्ययोर्हेतुभावे ताभ्यां प्रतीयमानं मध्ये किंचिद्द्वारमस्ति । यथा सर्वाशुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्यासंरक्षणीयत्वम् । तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधया तत्तद्वाक्यार्थेन प्रतीयमानं नाहं व्यास इत्यादि । तस्मात्पशुनेत्यत्र त्रिलोचन इत्यत्र च प्रतीयमानं वाच्यस्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादकतया काव्यलिङ्गस्याङ्गमेव । यथा -- 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरम्' इत्यनेकवाक्यार्थहेतुककाव्यलिङ्गोदाहरणे त्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरशशिहंसविशेषणानि तेषां वाक्यार्थानां हेतुभावोपपादकानीति । तत्र वाक्यार्थहेतुककाव्यलिङ्गे पदार्थहेतुककाव्यलिङ्गमङ्गमिति न तयोः काव्यलिङ्गोदाहरणत्वे काचिदनुपपत्तिः ॥ १२१ ॥
[commentary]
ऽर्थो व्यङ्ग्योऽर्थः ॥ प्रतिनिर्देश्यत्वादिति ॥ निर्दिश्यते उच्चार्यत इति निर्देशः शब्दः तेन । विपरीतार्थशव्दत्वादित्यर्थः । तस्य तादृशतृतीयलोचनत्वस्य । तथाचोभयत्र परिकरालंकारसत्त्वात्काव्यलिङ्गोदाहरणत्वमनुपपन्नमिति भावः । तयोः पशुनेत्याद्युक्तोदाहरणयोः । तदुत्थापितं परिकरोपपादितम् । व्यङ्ग्यस्य हेतुकोटावेवानुप्रवेशादिति भावः ॥ एतदेव विवृणोति -- प्रतीयमानेति ॥ वाच्यस्यैवेत्येवकारसूचितं व्यङ्ग्यद्वारकत्वं नहीत्यादिना विवृतम् । तदयमर्थः -- यदि पश्वादिपदव्यङ्ग्यं केशपाशसाम्याभावादेरर्थस्य साक्षादुपपादकं स्यात्तदात्र परिकर एव स्यान्न काव्यलिङ्गम् । न त्वेवमस्ति । पशुपदप्रतीताविवेकित्वमात्रेण साम्याभावस्योपपादनासंभवात् । किंतु तद्विशिष्टपशुपुरस्कृतत्वाभाव एव साक्षादुपपादक इति तत्कोटिनिविष्टं व्यङ्ग्यं काव्यलिङ्गरूपस्य तस्याङ्गमेव । व्यङ्ग्यान्तरं तु नोक्तकाव्यलिङ्गगम्यमर्थोपपादकमस्तीति निराबाधमेव काव्यलिङ्गमिति । ननु स्वयमन्योपपादकस्य काव्यलिङ्गस्याप्युपपादकं क्व दृष्टमित्याशङ्क्योदाहरति -- यत्त्वन्नेत्रेति ॥ एतत्प्रतीपालंकारे प्रागुदाहृतम् ॥ अनेकवाक्यार्थहेतुकेति ॥ पूर्वपादत्रयवाक्यार्थत्रयस्य चतुर्थपादार्थहेतुत्वमिति ज्ञेयम् ॥ हेतुभावोपपादकानीति ॥ इन्दीवरस्य नेत्रसमानकान्तित्वं विना पटादेरिव तददर्शनस्य दैवगतकान्तासादृश्यविनोदासहिष्णुत्वे हेतुत्वासंभवादिति भावः । समाहितमर्थमुपसंहरति -- इतीति ॥ तयोः पशुनापीति मच्चित्तेऽस्तीत्येतयोः ॥ १२१ ॥ इति काव्यलिङ्गालंकारः ॥ ६० ॥