This page has been fully proofread twice.

अत्र शिवस्य युगपत्कृत्रिमब्रह्मचर्यापनयनत्वरातदनुवर्तनेच्छयोर्विरुद्धयोः क्रमाद्गिरिजातीव्रतपसोऽसहिष्णुत्वं तत्संलापकौतुकं चेत्युभावर्थौ हेतुत्वेन निबद्धौ । क्वचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक एव हेतुः । यथा --
 
जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् ।
अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च ॥
 
अत्र विफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरेक एवाम्बुधितनयाधररसास्वादो हेतुः । इदं काव्यलिङ्गं हेत्वलंकार इति केचिद्व्याजह्रुः ॥
 
हे गोदावरि देवि तावकतटोद्देशे कलिङ्गः कवि-
र्वाग्देवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्तिं गतः ।
एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं
ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति ॥
 
इत्यत्र ब्रह्मणः प्रापणं कथं गोदावर्या कर्तव्यमित्यसंभावनीयार्थोपपादकस्यार्णवमध्येत्यादितद्विशेषणस्य न्यसनं श्लेषाख्यो गुण इति 'श्लेषोऽविघटमानार्थघटकार्थस्य वर्णनम्' इति श्लेषलक्षणमिति च जयदेवेनोक्तम् । वस्तुतस्त्वत्रापि पदार्थहेतुकं काव्यलिङ्गमेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थवाक्यार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकम् । उच्यते । परिकरे
पदार्थवाक्यार्थबलात्प्रतीयमानार्थौ वाच्योपस्कारकतां भजतः । काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखावलोकोच्छेदिनीत्यादिपदार्थहेतुककाव्यलिङ्गोदाहरणे 'अग्रेऽप्यनतिमान्' इत्यादिवाक्यार्थहेतुककाव्यलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि पशुनाप्यपुरस्कृतेनेति पदार्थहेतुकोदाहरणे मच्चित्तेऽस्ति त्रिलोचन इति वाक्यार्थहेतुकोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोट्यनुप्रवेशो दृश्यते पशुनेति ह्यवि-
 
[commentary]
 
भवन्नसहभावो दुःसहत्वमर्थाद्गौर्या यस्य तादृशस्य तपसः असोढा सहनासमर्थः शैलकन्यायाः कथानां विस्रम्भेषु विश्वासेषु रसिकश्चेति । ब्रह्मचर्य ब्रह्मचारिवेषः ॥ जीयादिति ॥ अम्बुधेस्तनयाया लक्ष्म्या अधररसमास्वादयन्नयं मुरारिर्जीयात्सर्वोत्कर्षेण वर्तताम् । कीदृशः । समुद्रमथनक्लेशमेवंविधाङ्गनालाभात्सफलं कलयन् जानन् एतदधरमाधुर्ये सत्यमृतस्य वैयर्थ्याद्विफलं च कलयन्नित्यर्थः ॥ हे गोदावरीति ॥ अत्रार्णवमध्येत्यादिब्रह्मविशेषणस्य न्यसनं श्लेषाख्यो गुण इति जयदेवेनोक्तमित्यन्वयः । तावकतटोद्देशे त्वदीयतीरभूमौ कलिङ्गाख्यः
कविर्बहूनां देशानां दर्शने सहचारिणीम् । विरक्तिं मुक्तिम् । एनां सरस्वतीं ब्रह्माणं प्रति गमय नयेति संबन्धः । कीदृशम् । अर्णवमध्ये सुप्तो यो मुरभिन्मुरारिस्तन्नाभिकमलस्थम् ॥ श्लेषोऽविघटमानेत्यत्राकारप्रश्लेषः । अविघटमानस्यानुपपद्यमानस्यार्थस्य घटक उपपादको योऽर्थस्तस्य वर्णनं श्लेषाख्यो गुण इत्यर्थः । पदार्थहेतुकं समस्तपदार्थहेतुकम् ।पदार्थवाक्यार्थेति द्वन्द्वः । प्रतीयमानो-
 
कुव० १३