2023-04-07 14:30:27 by Bharadwajraki
This page has not been fully proofread.
अत्र शिवस्य युगपत्कृत्रिमब्रह्मचर्यापनयनत्वरातदनुवर्तनेच्छयोर्विरुद्धयोः क्रमागिरिजातीव्रतपसोऽसहिष्णुत्वं तत्संलापकौतुकं चेत्युभाव हेतु- त्वेन नि । क्वचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक एव हेतुः ।
यथा-er --
।
जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम्
अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च ॥
१२९
अत्र विफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरेक एवाम्बुधितनयाधरर-
सास्वादो हेतुः । इदं काव्यलिङ्गं हेत्वलंकार इति केचिद्व्याजहुः ॥
हे गोदावरि देवि तावकतटोद्देशे कलिङ्गः कवि-
र्वाग्देवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्तिं गतः ।
एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं
ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति ॥
इत्यत्र ब्रह्मणः प्रापणं कथं गोदावर्या कर्तव्यमित्यसंभावनीयार्थोपपादक-
स्यार्णवमध्ये त्यादितद्विशेषणस्य न्यसनं श्लेषाख्यो गुण इति 'श्लेषोऽविघटमा-
नार्थघटकार्थस्य वर्णनम्' इति श्लेपलक्षणमिति च जयदेवेनोक्तम् । वस्तुतस्त्व-
त्रापि पदार्थ हेतुकं काव्यलिङ्गमेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थवा-
क्यार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकम् । उच्यते । परिकरे
पदार्थवाक्यार्थबलात्प्रतीयमानार्थी वाच्योपस्कारकतां भजतः । काव्यलिङ्गे तु
पदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखावलोकोच्छेदिनीत्या-
दिपदार्थहेतुककाव्य लिङ्गोदाहरणे 'अग्रेऽप्यनतिमान्' इत्यादिवाक्यार्थहेतुक-
काव्यलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि पशुनाप्य-
पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मञ्चित्तेऽस्ति त्रिलोचन इति वाक्यार्थहेतु-
कोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोट्यनुप्रवेशो दृश्यते पशुनेति ह्यवि-
भवन्नसहभावो दुःसहत्वमर्थाद्वाय यस्य तादृशस्य तपसः असोढा सहनासमर्थः
शैलकन्यायाः कथानां विखम्भेषु विश्वासेषु रसिकञ्चेति । ब्रह्मचर्य ब्रह्मचारिवेषः ॥
जीयादिति ॥ अम्वुधेस्तनयाया लक्ष्म्या अधररसमास्वादयन्त्रयं मुरारिर्जीया-
त्सर्वोत्कर्षेण वर्तताम् । कीदृशः । समुद्रमथन क्लेश मेवंविधाङ्गनालाभात्सफलं
कलयन् जानन् एतदवरमाधुर्ये सत्यमृतस्य वैयर्थ्याद्विफलं च कलयन्नित्यर्थः ॥
हे गोदावरीति ॥ अत्रार्णवमध्येत्यादिब्रह्मविशेषणस्य न्यसनं श्लेषाख्यो
गुण इति जयदेवेनोक्तमित्यन्वयः । तावकतटोद्देशे त्वदीयतीरभूमौ कलिङ्गाख्यः
कविर्बहूनां देशानां दर्शने सहचारिणीम् । विरक्ति मुक्तिम् । एनां सरस्वतीं
ब्रह्माणं प्रति गमय नयेति संबन्धः । कीदृशम् । अर्णवमध्ये सुप्तो यो मुरभि -
न्मुरारिस्तन्नाभिकमलस्थम् ॥ श्लेषोऽविघटमानेत्यत्राकारप्रश्लेषः । अविघटमान-
स्यानुपपद्यमानस्यार्थस्य घटक उपपादको योऽर्थस्तस्य वर्णनं श्लेषाख्यो गुण इत्य-
र्थः । पदार्थहेतुकं समस्तपदार्थहेतुकम् । पदार्थवाक्यार्थेति द्वन्द्वः । प्रतीयमानो-
कुव० १३