This page has been fully proofread twice.

अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा-
लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥
 
अत्र मोक्षस्य महामोहत्वप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति
पदार्थो हेतुः । क्वचित्पदार्थवाक्यार्थौ परस्परसापेक्षौ हेतुभावं भजतः ।
यथावा --
 
चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्बिभर्ति सा ।
पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥
 
अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि यान्बिभर्ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः । क्वचित्समर्थनीयार्थसमर्थनार्थे वाक्यार्थे पदार्थो हेतुः ॥
 
वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे न क्वापि क्वचि[^१]दपि भवन्तं प्रणतवान् ।
नमन्मुक्तः सं[^२]प्रेत्यहमतनुरग्रेऽप्यनतिमा-
नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥
 
अत्र तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थत्वात् । तत्समर्थनं च पूर्वापरजन्मनोरनमनाभ्यां वाक्यार्थभूताभ्यां क्रियते । अत्र द्वितीयवाक्यार्थेऽतनुत्वमेकपदार्थो हेतुः । अत्रापि संप्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थो वा हेतुः । क्वचित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः ॥
 
असोढा तत्कालोल्लसदसहभावस्य तपसः
कथानां विस्रम्भेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्यात्कपटबटुवेषापनयने
त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥
 
[commentary]
 
निलीयामहे । वयमित्यर्थात् ॥ चिकुरेति ॥ चिकुरप्रकाराः केशपाशाः । विदुषी पण्डिता सा दमयन्ती । अपुरस्कृतेनानादृतेन पुरोभागेऽनिहितेन च । पदार्थश्चानेकपदार्थश्च ॥ वपुरिति ॥ पुरा पूर्वस्मिन्क्वापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवानितीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । संप्रति नमन्नतिं कुर्वन्मुक्तः अतनुरशरीरः ।अतोऽहमग्नेऽप्यनतिमान्नतिरहितः ॥ अत्रेति ॥ समर्थनीयं हेतुकथनेनोपपादनीयम् । अस्पष्टार्थत्वादस्पष्टहेतुकत्वात् । अत्रानयोर्वाक्यार्थयोर्मध्ये । द्वितीयवाक्यार्थे अग्रेऽप्यनतिमानिति वाक्यार्थे । अत्राप्यतनुत्वेऽपि नमन्मुक्त इत्यस्यावाक्यत्वादाह -- अनेकपदार्थो वेति ॥ असोढेति ॥ तपस्यन्तीमुमां प्रति बटुवेषेणागतस्य हरस्य वर्णनम् । कपटेन यो बटोर्ब्रह्मचारिणो वेषस्तस्थापनयने त्यागे त्वराशैथिल्याभ्यां युगपदभियुक्त
आक्रान्तः । त्वराशैथिल्यहेतुगर्भं क्रमेण विशेषणद्वयमाह । तत्काले उल्लसन्प्रादु-
 
[^१] 'क्षणमपि'.
[^२] 'संप्रत्यतनुरहमग्रे'.