This page has not been fully proofread.

काव्यलिङ्गालंकारः ६० ] अलंकारचन्द्रिकासहितः ।
 
स्वकीयं हृदयं भित्वा निर्गतौ यो पयोधरौ ।
हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ १२० ॥
 

 
१२७
 
काव्यलिङ्गालंकारः ६०
समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् ।
जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ॥ १२१ ॥
 
अत्र कन्दर्पजयोपन्यासो दुष्करविषयत्वात्समर्थनसापेक्षः । तस्य मच्चित्ते-
ऽस्ति त्रिलोचन इति स्वान्तःकरणे शिवसंनिधानप्रदर्शनेन समर्थनं काव्यलि-
ङ्गम् । व्याप्तिधर्मतासापेक्षनैयायिक लिङ्गव्यावर्तनाय काव्यविशेषणम् । इदं
वाक्यार्थहेतुकं काव्यलिङ्गम् । पदार्थहेतुकं यथा-
भस्मोदूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं
 
हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते ।
 
तमः स्थास्यत्यसंशयम् ॥' अत्र शनैः शब्दमहिना राजाग्रे दारिद्र्यस्थित्यपेक्षया
सूर्याग्रे तमोवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापद्यते । ननु कैमुति-
कन्यायेनेति केनचिदुक्तं तत्रेदं वक्तव्यम् । केनचिदर्थेन तुल्यन्यायत्वादर्थान्तर-
स्यापत्तिरर्थापत्तिरिति तदुक्तलक्षणमयुक्तम् । का वाती सरसीरुहामित्यादिकैमु
त्यन्यायविषयार्थापत्तावव्याप्तेः । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्या-
यत्वाभावादापादनाप्रतीतेश्चेति । न चात्र कैमुत्यन्यायतामात्रं न वलंकारत्वमि
ति युक्तम्, अलंकारतत्त्वाभियुक्तानां प्राचीनानां शून्यहृदयताया अपामरेण
संभावयितुमशक्यत्वात् । लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन
तेनैव न्यायेन तस्यालंकारतासिद्धेश्च । इत्थंच त्वदुक्तार्थापत्त्युदाहरणे वक्ष्यमाणः
संभावनालंकारो योऽन्यैर्यद्यर्थोक्तौ च कल्पनमिति यद्यर्थातिशयोक्तित्वेनोक्तः ।
यद्यथतिशयोक्तावापाद्यापादकयोर्विपरीतार्थ विश्रान्तत्वम् इह त्वापादकस्य सि-
द्धत्वमापाद्यस्य संभाव्यमानत्वमिति वैचित्र्यं तु तदवान्तरभेदतायाः साधकं न
तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्कापीयलं विस्तरेण ॥ १२० ॥ इत्यर्था
पत्त्यलंकारः ॥ ५९॥
 
-
 
"
 
समर्थनीयस्येति ॥ समर्थनापेक्षस्यार्थस्य समर्थनं काव्यलिङ्गमलंकारः ।
अर्थान्तरन्यासवारणाय समर्थनापेक्षस्येति । यदा त्वर्थान्तरन्यासप्रकरणे वक्ष्यमा-
णरीत्या सामान्य विशेषभावातिरिक्तत्वं निवेश्यते तदा नोपादेयमेवैतदितिबोध्यम् ।
दुष्कर विषयत्वाद्दुष्करविषयरूपत्वात् । समर्थनापेक्षस्येत्यनन्तरमर्थस्येति शेषः ॥
नैयायिकेति ॥ नैयायिकाभिमतलिङ्गस्य लक्ष्यतावारणायेत्यर्थः ॥ भस्मेति ॥
भस्मोद्धूलनेति संबोधनम् । शुभमस्त्विति शेषः । गिरिसुताकान्तस्य शिवस्यालयः
प्रासादस्तदलंकारभूते सोपानपते इत्यपि संबोधनम् । हेति दैन्ये । विभुना
प्रभुणा शिवेन । युष्माकं या सपर्या पूजा तत्सुखस्यालोकः प्रकाशस्तदुच्छेदके