This page has been fully proofread twice.

स्वकीयं हृदयं भित्वा निर्गतौ यो पयोधरौ ।
हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ १२० ॥
 
--------------

 
काव्यलिङ्गालंकारः ६०
 
समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् ।
जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ॥ १२१ ॥
 
अत्र कन्दर्पजयोपन्यासो दुष्करविषयत्वात्समर्थनसापेक्षः । तस्य मच्चित्तेऽस्ति त्रिलोचन इति स्वान्तःकरणे शिवसंनिधानप्रदर्शनेन समर्थनं काव्यलिङ्गम् । व्याप्तिधर्मतासापेक्षनैयायिक लिङ्गव्यावर्तनाय काव्यविशेषणम् । इदं वाक्यार्थहेतुकं काव्यलिङ्गम् । पदार्थहेतुकं यथा --
 
भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं
हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते ।
 
[commentary]
 
तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहिम्ना राजाग्रे दारिद्र्यस्थित्यपेक्षया सूर्याग्रे तमोवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापद्यते । ननु कैमुतिकन्यायेनेति केनचिदुक्तं तत्रेदं वक्तव्यम् । केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिरिति तदुक्तलक्षणमयुक्तम् । का वार्ता सरसीरुहामित्यादिकैमुत्यन्यायविषयार्थापत्तावव्याप्तेः । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्यायत्वाभावादापादनाप्रतीतेश्चेति । न चात्र कैमुत्यन्यायतामात्रं न त्वलंकारत्वमिति युक्तम्, अलंकारतत्त्वाभियुक्तानां प्राचीनानां शून्यहृदयताया अपामरेण
संभावयितुमशक्यत्वात् । लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्यायेन तस्यालंकारतासिद्धेश्च । इत्थंच त्वदुक्तार्थापत्त्युदाहरणे वक्ष्यमाणः संभावनालंकारो योऽन्यैर्यद्यर्थोक्तौ च कल्पनमिति यद्यर्थातिशयोक्तित्वेनोक्तः ।यद्यर्थातिशयोक्तावापाद्यापादकयोर्विपरीतार्थविश्रान्तत्वम्, इह त्वापादकस्य सिद्धत्वमापाद्यस्य संभाव्यमानत्वमिति वैचित्र्यं तु तदवान्तरभेदतायाः साधकं न तु तद्बहिर्भूतताया इति न तत्राव्याप्तिशङ्कापीत्यलं विस्तरेण ॥ १२० ॥ इत्यर्थापत्त्यलंकारः ॥ ५९॥
 
समर्थनीयस्येति ॥ समर्थनापेक्षस्यार्थस्य समर्थनं काव्यलिङ्गमलंकारः । अर्थान्तरन्यासवारणाय समर्थनापेक्षस्येति । यदा त्वर्थान्तरन्यासप्रकरणे वक्ष्यमाणरीत्या सामान्यविशेषभावातिरिक्तत्वं निवेश्यते तदा नोपादेयमेवैतदितिबोध्यम् । दुष्करविषयत्वाद्दुष्करविषयरूपत्वात् । समर्थनापेक्षस्येत्यनन्तरमर्थस्येति शेषः ॥ नैयायिकेति ॥ नैयायिकाभिमतलिङ्गस्य लक्ष्यतावारणायेत्यर्थः ॥ भस्मेति ॥ भस्मोद्धूलनेति संबोधनम् । शुभमस्त्विति शेषः । गिरिसुताकान्तस्य शिवस्यालयः प्रासादस्तदलंकारभूते सोपानपङ्क्ते इत्यपि संबोधनम् । हेति दैन्ये । विभुना प्रभुणा शिवेन । युष्माकं या सपर्या पूजा तत्सुखस्यालोकः प्रकाशस्तदुच्छेदके