2023-04-26 09:56:15 by Bharadwajraki
This page has been fully proofread twice.
यथावा --
मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥
एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थिते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा --
मधुव्रतौघः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन ।
बिम्बं समाक्रम्य बलात्सुधांशोः कलङ्कमङ्के ध्रुवमातनोति ॥ ११९ ॥
--------------
अर्थापत्त्यकारः ५९
कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते ।
स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥१२०॥
अत्र स इत्यनेन पद्मानि येन जितानि इति विवक्षितं, तथाच सोऽपि येन जितस्तेन पद्मानि जितानीति किमु वक्तव्यमिति दण्डापूपिकान्यायेन पद्मरूपस्यार्थस्य संसिद्धिः काव्यार्थापत्तिः । तान्त्रिकाभिमतार्थापत्तिव्यावर्तनाय काव्येति विशेषणम् । यथावा --
अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः ।
अन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥
[commentary]
परि स्थितत्वादधस्तात्कृतौ चेति श्लेषः ॥ ममेति ॥ भुवि भूलोके मम रूपख्यातिं यो हृतवान् तस्मिन्ननुप्रविष्टमनुरक्तं हृदयं यस्याः, तस्यानुप्रविष्टं हृदयं यस्यां वा तादृगियमिति त्वयि मत्सरादिव खलु निश्चितं निरस्तदयो मदनस्तां क्षिणोति क्षीणां करोतीत्यन्वयः । अत्र मत्सरादिवेति हेत्वंशे उत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्रतिपक्षसंबन्धिबाधनं प्रत्यनीकालंकारस्य विविक्तो विषय इति बोध्यम् । अतएव मम्मटभट्टैरपि -- 'त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चमभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥’ इत्युदाहृतम् । एवंच हेतूप्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हतीति कस्यचिद्वचनमनादेयम् ॥कैमुतिकेति ॥ तत्संबन्धिबाधनापेक्षया साक्षात्तद्बाधने विशेषादिति भावः ॥ मध्विति ॥ भ्रमरौघः स्वकीयमधुप्रपारूपस्य पद्मस्य निमीलनेन कुपितः सन्सुधांशोर्बिम्बं बलात्समाकृष्य तस्याङ्के मध्यभागे कलङ्क ध्रुवमातनोतीत्यन्वयः ॥ ११९ ॥ इति प्रत्यनीकालंकारः ॥ ५८ ॥
कैमुत्येनेति ॥ कैमुत्यन्यायेनेत्यर्थः । काव्येऽलंकाररूपार्थापत्तिः काव्यार्थापत्तिः ॥दण्डापूपिकेति ॥ दण्डाकर्षणे तदवलम्बिनामपूपानामाकर्षणं यथार्थसिद्धं तद्वदित्यर्थः ॥ व्यावर्तनायेति ॥ लक्ष्यतावारणायेत्यर्थः ॥ अधरोऽयमिति ॥ बन्धुजीवं बन्धूकपुष्पं तत्प्रभाहरो बन्धुभूतानां जीवानां प्रभाहरश्च । यत्त्वेतल्लक्षणमयुक्तम्, कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकार्थापत्तावव्याप्तेः । यथा – 'तवाग्रे यदि दारिद्र्यं स्थितं भूप द्विजन्मनाम् । शनैः सवितुरप्यग्रे