This page has been fully proofread twice.

आद्योदाहरणे श्रुतस्य पान्थस्य कर्तृकारकस्यैकस्य गमनादिष्वन्वयः, द्वितीये त्वध्याहृतस्य प्रभुकर्तृकारकस्य निद्रादिष्वन्वय इत्येकस्यानेकवाक्यान्वयेन दीपकच्छायापत्त्या कारकदीपकं प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥ ११७ ॥
 
--------------

 
समाध्यलंकारः ५७
 
समाधिः कार्यसौकर्यं कारणान्तरसंनिधेः ।
उत्कण्ठिता च त[^१]रुणी जगामास्तं च भानुमान् ॥ ११८ ॥
 
यथा वा --
 
मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितम् ॥
 
केनचिदारिप्सितस्य कार्यस्य कारणान्तरसंनिधानाद्यत्सौकर्यं तत्सम्यगाधानात्समाधिः । द्वितीयसमुच्चयप्रतिद्वन्द्वी अयं समाधिः । तत्र बहूनां प्रत्येकं समर्थानां खले[^२]कपोतकन्यायेन युगपत्कार्यसाधनत्वेनावतारः । अत्र त्वेकेनकार्ये समारिप्सितेऽन्यस्य काकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्वमात्रम् । अत्रोदाहरणमुत्कण्ठितेति । उत्कण्ठैव प्रियाभिसरणे पुष्कलं कारणं नान्धकारागममपेक्षते 'अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायात् दैवादापतता त्वन्धकारेण तत्सौकर्यमात्रं कृतमिति । एवं द्वितीयोदाहरणेऽपि योज्यम् ॥ ११८ ॥
 
-------------

 
प्रत्यनीकालंकारः ५८
 
प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः ।
जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ ॥ ११९ ॥
 
[commentary]
 
भूयः पुनः । छायासादृश्यं मुख्यदीपकस्य पूर्वोक्तप्रकारेण संभवादिति भावः । प्रतिद्वन्द्वि विपरीतम् ॥ ११७ ॥ इति कारकदीपकालंकारः ॥ ५५ ॥
 
समाधिरिति ॥ कारणान्तरसंनिधेर्वशात्कार्यस्य सुकरत्वं समाधिरलंकारः । उत्कण्ठिता नायकसमीपं गन्तुम् ॥ मानमिति ॥ मानं निराकर्तुमस्याः पादयोः पतिष्यतो ममोपकाराय दिष्ट्या भाग्येनेदं घनगर्जितमुदीर्णमुद्गतमित्यन्वयः । समुच्चये कारणानां तुल्यकक्षत्वमिह तु तद्विपरीतमतुल्यकक्षत्वमिति प्रतिद्वन्द्वित्वं तत्रेत्यादिना दर्शितम् ॥ ११८ ॥ इति समाध्यलंकारः ॥ ५७ ॥
 
प्रत्यनीकमिति ॥ बलवतः शत्रोः पक्षे पक्षान्तःपातिनि तदीये यः पराक्रमस्तत्प्रत्यनीकं नामालंकारः । अनीकप्रतिनिधिरूपत्वात् ॥ जैत्रेति ॥ उत्पलाभ्यां स्वजयकारिनेत्रानुसारिणौ कर्णावधः कृतौ तिरस्कृतौ । अवतंसतया तदु-
 

[^१] 'कुलटा'.
[^२] 'वृद्धा युवानः शिशवः कपोता: खले यथामी युगपत्पतन्ति' इत्यनेन.