This page has not been fully proofread.

कुवलयानन्दः । [ कारकदीपकालंकारः ५६
अहं प्राथमिकाभाजामेककार्यान्वयेऽपि सः ।
 
कुलं रूपं वयो विद्या धनं च मयन्त्यमुम् ॥ ११६ ॥
यत्रैकः कार्यसिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्येऽपि यद्यहमहमिकया खलेक-
पोतन्यायेन तत्सिद्धिं कुर्वन्ति सोऽपि समुच्चयः । यथा मदे आभिजात्यमेकं
समग्र कारणं तादृगेव रूपादिकमपि तत्साधनत्वेनावतरतीति ।
 
यथावा-
१२४
 
यथावा-
-
 
प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि-
निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः ।
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः
श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ११६ ॥
 
कारकदीपकालंकारः ५६
क्रमिकैकगतानां तु गुम्फः कारकदीपकम् ।
गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति ॥११७॥
 
निद्राति स्नाति भुङ्क्ते चलति कचभरं शोषयत्यन्तरास्ते
दीव्यत्यक्षैर्न चायं गदितुमवसरो भूय आयाहि याहि ।
इत्युद्दण्डैः प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीना-
नस्मान्पश्याब्धिकन्ये सरसिरुहरुचामन्तरङ्गैरपाङ्गैः ॥
 
-
 
पत्रस्य कमलस्य पत्रशतं दलशतम् ॥ ११५ ॥ अहंप्राथमिकेति ॥ अहं-
पूर्विकेत्यर्थः । 'अहं पूर्वमहं पूर्वमित्यहं पूर्विका स्त्रियाम् इत्यमरः । एक कार्यान्वये
एक कार्यसाधकत्वे । सः समुच्चयालंकारः । अहमहमिकया परस्पराहंकारेण ।
आभिजात्यं कुलीनत्वम् । समग्रं पुष्कलम् ॥ प्रदानमिति ॥ प्रच्छन्नं गुप्तं गृहं
प्रत्युपगतेऽर्थादतिथौ । लक्ष्म्यां सत्यां निरुत्सेको गर्वाभावः । अभिभवो निन्दा
तद्गन्धशून्याः मौनमनुद्घाटनम् । सदसि सभायां परेण कृताया उपकृतेः
कथनम् । श्रुते शास्त्रश्रवणे । सर्वप्रथमान्तानां पुरुषमभिजातं प्रथयतीत्यनेनान्वयः।
अभिजातं कुलीनम् । प्रथयति कथयति ॥ ११६ ॥ इति समुच्चयालंकारः ॥ ५५ ॥
 
ऋमिकेति ॥ क्रमिकाणामर्थात्क्रियाणामेककारकगतानां गुम्फो निबन्धः कार-
कदीपकं नामालंकारः । तदुक्तम् – 'सैव क्रियासु बह्वीषु कारकस्येति दीपकम्'
इति । सैव सकृद्वृत्तिः। पश्यति सार्थम् । पृच्छति मार्गम् ॥ निद्रातीति ॥ हे
अब्धिकन्ये, प्रभूणामुद्यतदण्डैर्द्वारि अधिकृतैर्द्वारपालै रित्यसकृद्वारितान् अतएव
दीनानस्मान्सरसीरुहद्युतीनां परमपरिचितैरपा कटाक्षैः पश्येत्यन्वयः ।
 
इति किम् । प्रभुर्निद्रातीत्यादि । अन्तः अन्तःपुरे । अक्षैः पाशैर्दीव्यति क्रीडति ।
१ ' प्रथमिका'• २ 'न्वयोऽपि'. ३ 'शीलं'.