2023-04-07 06:22:57 by Bharadwajraki
This page has been fully proofread once and needs a second look.
अहं[^१]प्राथमिकाभाजामेककार्यान्व[^१२]येऽपि सः ।
कुलं रू[^१३]पं वयो विद्या धनं च मदयन्त्यमुम् ॥ ११६ ॥
यत्रैकः कार्यसिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्येऽपि यद्यहमहमिकया खलेकपोतन्यायेन तत्सिद्धिं कुर्वन्ति सोऽपि समुच्चयः । यथा मदे आभिजात्यमेकं समग्रं कारणं तादृगेव रूपादिकमपि तत्साधनत्वेनावतरतीति ।
यथावा --
प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि-
निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः ।
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः
श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ११६ ॥
कारकदीपकालंकारः ५६
क्रमिकैकगतानां तु गुम्फः कारकदीपकम् ।
गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति ॥११७॥
यथावा --
निद्राति स्नाति भुङ्क्ते चलति कचभरं शोषयत्यन्तरास्ते
दीव्यत्यक्षैर्न चायं गदितुमवसरो भूय आयाहि याहि ।
इत्युद्दण्डैः प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीना-
नस्मान्पश्याब्धिकन्ये सरसिरुहरुचामन्तरङ्गैरपाङ्गैः ॥
[commentary]
पत्रस्य कमलस्य पत्रशतं दलशतम् ॥ ११५ ॥ अहंप्राथमिकेति ॥ अहंपूर्विकेत्यर्थः । 'अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम्' इत्यमरः । एककार्यान्वये एककार्यसाधकत्वे । सः समुच्चयालंकारः । अहमहमिकया परस्पराहंकारेण । आभिजात्यं कुलीनत्वम् । समग्रं पुष्कलम् ॥ प्रदानमिति ॥ प्रच्छन्नं गुप्तं गृहं प्रत्युपगतेऽर्थादतिथौ । लक्ष्म्यां सत्यां निरुत्सेको गर्वाभावः । अभिभवो निन्दा तद्गन्धशून्याः मौनमनुद्घाटनम् । सदसि सभायां परेण कृताया उपकृतेः कथनम् । श्रुते शास्त्रश्रवणे । सर्वप्रथमान्तानां पुरुषमभिजातं प्रथयतीत्यनेनान्वयः।
अभिजातं कुलीनम् । प्रथयति कथयति ॥ ११६ ॥ इति समुच्चयालंकारः ॥ ५५ ॥
ऋमिकेति ॥ क्रमिकाणामर्थात्क्रियाणामेककारकगतानां गुम्फो निबन्धः कारकदीपकं नामालंकारः । तदुक्तम् – 'सैव क्रियासु बह्वीषु कारकस्येति दीपकम्' इति । सैव सकृद्वृत्तिः। पश्यति सार्थम् । पृच्छति मार्गम् ॥ निद्रातीति ॥ हे अब्धिकन्ये, प्रभूणामुद्यतदण्डैर्द्वारि अधिकृतैर्द्वारपालैरित्यसकृद्वारितान् अतएव दीनानस्मान्सरसीरुहद्युतीनां परमपरिचितैरपाङ्गैः कटाक्षैः पश्येत्यन्वयः । इति किम् । प्रभुर्निद्रातीत्यादि । अन्तः अन्तःपुरे । अक्षैः पाशैर्दीव्यति क्रीडति ।
[^१] 'प्रथमिका'.
[^२] 'न्वयोऽपि'.
[^३] 'शीलं'.
कुलं रू[^