This page has not been fully proofread.

समुच्चयालंकारः ५५] अलंकारचन्द्रिकासहितः ।
 
विकल्पालंकारः ५४
 
विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता ।
 
सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥ ११६॥
अत्र संधिविग्रहप्रमाणप्राप्तयोः शिरश्चापनमनयोर्युगपदुपस्थितयोर्युगपत्क-
तुमशक्ययोर्विकल्पः । यथावा-
w
 
पतत्यविरतं वारि नृत्यन्ति च कलापिनः ।
 
१२३
 
अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥
प्रियसमागमश्चेन्न मरणमाशंसनीयं मरणे तु न प्रियसमागमसंभव इति
तयोराशंसायां विकल्पः ॥ ११४ ॥
 
समुच्चयालंकारः ५५
बहूनां युगपद्भावभाजां गुम्फः समुच्चयः ।
नश्यन्ति पश्चात्पश्यन्ति त्रेस्यन्ति च भवद्विषः ॥११५॥
अविरोधेन संभावितयोगपद्यानां नाशादीनां गुम्फनं समुच्चयः । यथावा-
बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
 
शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् ।
शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्खति
 
भ्राम्यत्युकुठति प्रणश्यति गलत्युन्मूर्च्छति त्रुट्यति ॥
 
अत्र कासांचित्क्रियाणां किंचित्कालभेदसंभवेऽपि शतपत्रपत्रशतभेदन्या-
येन यौगपद्यं विरहातिशयद्योतनाय विवक्षितमिति लक्षणानुगतिः ॥ ११५ ॥
 
मार्ग वक्रिमाणं कौटिल्यं वक्राकारतां च । महाकाल इति तत्रैव ख्यातं शिवलि-
ङ्गम् ॥ ११३ ॥ इति परिसंख्यालंकारः ॥ ५३ ॥
 
संधिविग्रहप्रमाणेति ॥ संधिविग्रहयोः कर्तव्यताबोधकप्रमाणेत्यर्थः ॥
॥ ११४ ॥ इति विकल्पालंकारः ॥ ५४ ॥
 
बहूनामिति ॥ युगपद्भावो भवनं तद्भाजां बहूनां गुम्फो निबन्धः । वर्णन-
मितियावत् । ससमुच्चयालंकारः ॥ बिभ्राणेति ॥ नायकं प्रति दूत्या इयमुक्तिः ।
हे साधो, त्वया हृदये विनिहितं प्रेमाभिधानं नवं शल्यं धारयन्ती विधुरिता वि-
रहविह्वला सा नायिका यद्विदधाति तदाकर्ण्यतामित्यन्वयः । किं तदित्यपेक्षाया-
माह — शेते निद्राति । ताम्यति ग्लानिं प्राप्नोति । प्रकर्षेण म्लायति ।
प्रेति चलति । प्रणश्यति नैर्बल्यातिशयेन मृतप्राया भवति । गलति खेदा-
तिशयात् त्रुट्यति क्षीणा भवतीति । कासांचिच्छयनभ्रमणादीनाम् । शत-
-
 
-
 
१ 'द्भाजां भावगुम्फ: '. २ 'भ्रश्यन्ति च तव द्विष: '.