This page has been fully proofread twice.

विकल्पालंकारः ५४
 
विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता ।
सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥ ११६॥
 
अत्र संधिविग्रहप्रमाणप्राप्तयोः शिरश्चापनमनयोर्युगपदुपस्थितयोर्युगपत्कर्तुमशक्ययोर्विकल्पः । यथावा --
 
पतत्यविरतं वारि नृत्यन्ति च कलापिनः ।
अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥
 
प्रियसमागमश्चेन्न मरणमाशंसनीयं मरणे तु न प्रियसमागमसंभव इति तयोराशंसायां विकल्पः ॥ ११४ ॥
 
--------------
 
समुच्चयालंकारः ५५
 
बहूनां युगप[^१]द्भावभाजां गुम्फः समुच्चयः ।
नश्यन्ति पश्चात्पश्यन्ति त्र[^२]स्यन्ति च भवद्द्विषः ॥११५॥
 
अविरोधेन संभावितयौगपद्यानां नाशादीनां गुम्फनं समुच्चयः । यथावा --
 
बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् ।
शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्खति
भ्राम्यत्युल्लुठति प्रणश्यति गलत्युन्मूर्च्छति त्रुट्यति ॥
 
अत्र कासांचित्क्रियाणां किंचित्कालभेदसंभवेऽपि शतपत्रपत्रशतभेदन्यायेन यौगपद्यं विरहातिशयद्योतनाय विवक्षितमिति लक्षणानुगतिः ॥ ११५ ॥
 
[commentary]
 
मार्गं वक्रिमाणं कौटिल्यं वक्राकारतां च । महाकाल इति तत्रैव ख्यातं शिवलिङ्गम् ॥ ११३ ॥ इति परिसंख्यालंकारः ॥ ५३ ॥
 
संधिविग्रहप्रमाणेति ॥ संधिविग्रहयोः कर्तव्यताबोधकप्रमाणेत्यर्थः ॥ ॥ ११४ ॥ इति विकल्पालंकारः ॥ ५४ ॥
 
बहूनामिति ॥ युगपद्भावो भवनं तद्भाजां बहूनां गुम्फो निबन्धः । वर्णनमितियावत् । ससमुच्चयालंकारः ॥ बिभ्राणेति ॥ नायकं प्रति दूत्या इयमुक्तिः । हे साधो, त्वया हृदये विनिहितं प्रेमाभिधानं नवं शल्यं धारयन्ती विधुरिता विरहविह्वला सा नायिका यद्विदधाति तदाकर्ण्यतामित्यन्वयः । किं तदित्यपेक्षायामाह -- शेते निद्राति । ताम्यति ग्लानिं प्राप्नोति । प्रकर्षेण म्लायति । प्रेति चलति । प्रणश्यति नैर्बल्यातिशयेन मृतप्राया भवति । गलति खेदातिशयात् त्रुट्यति क्षीणा भवतीति । कासांचिच्छयनभ्रमणादीनाम् । शत-
 
[^१] 'द्भाजां भावगुम्फः'.
[^२] 'भ्रश्यन्ति च तव द्विष:षः'.