This page has not been fully proofread.

भवन्तमथवा दोषं नयत्यत्याज्यतामसौ ।
मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः ॥ ४२ ॥
अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ।
तव दुग्धाब्धिसंभूते कथं जाता कलङ्किता ॥ ४३ ॥
कवीनां समयाद्विद्याविरुद्धो दोषतां गतः ।
दधार गौरी हृदये देवं हि मकराङ्कितम् ॥ ४४ ॥
अत्र श्लेषोदयात्रैव त्याज्यं हीति निरर्थकम् ।
 
इति श्रीजय देव कविवरविरचिते चन्द्रालोके दोषनिरूपणो नाम द्वितीयो मयूखः ॥
 
तृतीयो मयूख: ३
 
अथ लक्षणानि -
 
-
 
॥ ४ ॥
 
अन्त्याक्षरा विचित्रार्थख्यातिरक्षरसंहतिः ।
उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥ १ ॥
शोभाख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते ।
मुधा निन्दति संसारं कंसारिर्यत्र पूज्यते ॥ २ ॥
अभिमानो विचारश्चेदूहितार्थनिषेधकृत् ।
इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥ ३॥
हन्तुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् ।
नेन्दुर्नार्कोऽय मौर्वाग्निः सागरादुत्थितो दहन्
प्रतिषेधः प्रसिद्धानां कारणानामनादरः ।
न युद्धे न भ्रुवोः स्पन्दे नैव धीरा निवारिताः ॥ ५ ॥
निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ ६ ॥
स्यान्मिथ्याध्यवसायश्वेदसती साध्यसाधने ।
चन्द्रांशुसूत्रग्रथितां नभः पुष्पस्रजं वह ॥ ७ ॥
सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।
युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥ ८ ॥
युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।
नवस्त्वं नीरदः कोऽपि स्वर्ण वर्षसि यन्मुहुः ॥ ९ ॥
कार्य फलोपलम्भश्चेद्यापाराद्वस्तुतोऽथवा ।
असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १० ॥
 
१ अत्र स्वर्णपदेन कनकं पक्षे सुष्टु अर्णः उदकम् ।