This page has been fully proofread twice.

इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
हतानां प्राणानां कुलिशकठिनानां फलमिदम् ॥
 
अत्र दम्पत्योः प्रथममभेदस्ततः प्रेयसीप्रियतमभावस्ततो भार्यापतिभाव इत्याधेयपर्यायः ॥ १११ ॥
 
--------------
 
परिवृत्त्यलंकारः ५२
 
परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः ।
जग्राहैकं शरं मुक्त्वा कटा[^१]क्षात्स रिपुश्रि[^२]यम् ॥ १११ ॥
 
यथावा--
 
तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥ ११२ ॥
 
-------------

 
परिसंख्यालंकारः ५३
 
परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम् ।
स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम् ॥ ११३ ॥
 
यथावा --
 
विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि ।
बिभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ॥
 
आद्योदाहरणे निषेधः शाब्दो द्वितीये त्वार्थः ॥ ११३ ॥
 
[commentary]
 
नु वितर्के । त्वं प्रियतमः । वयं प्रियतमाः । इदानीं तु त्वं नाथः पतिः वयं भार्याः । इतोऽपरं किमिष्टमिति शेषः । कुलिशं वज्रम् । अत्र त्वं प्रेयानित्येकवचनेन एकरूपप्रेमपात्रत्वं व्यज्यते । प्रियतमा इत्यादिबहुवचनेनानेकरूपतद्व्यतिरेक इति बोध्यम् ॥ १११ ॥ इति पर्यायालंकारः ॥ ५१ ॥
 
परिवृत्तिरिति ॥ न्यूनाधिकयोर्मिथः परस्परं विनिमयः परिवृत्तिरलंकारः ॥ जग्राहेति ॥ कटाक्षपूर्वकमेकं शरं मुक्त्वा रिपोः श्रियं जग्राहेत्यर्थः ॥ तस्य वेति ॥ प्रवयसो वृद्धस्य जटायुषो गृध्रविशेषस्य स्वर्गं गतवतः किमिव शोचनीयम् । न किंचित् । जर्जरं जीर्णतरं कलेवरं शरीरं तस्य व्ययो रावणेन सह युद्धे त्यागस्तस्माद्यशः क्रीतम् । शरीरं दत्वा यशो गृहीतमित्यर्थः ॥ ११२ ॥ इति परिवृत्त्यलंकारः ॥ ५२ ॥
 
परिसंख्येति ॥ एकं वस्तु प्रतिषिध्यापरस्मिन्वस्तुनो नियन्त्रणं नियमनं परिसंख्यालंकारः ॥ स्नेहेति ॥ स्नेहस्तैलादिस्निग्धद्रव्यमनुरागश्च । स्वान्तेषु चित्तेषु ॥ विलङ्घयन्तीति ॥यस्यामुज्जयिनीपुर्याम् । श्रुतिः कर्णो वेदश्च । वर्त्म
 
[^१] 'कटाक्षान्स'.
[^२] 'रिपुस्त्रियम्'.