This page has been fully proofread twice.

इत्यत्र पर्यायं काव्यप्रकाशकुदुदाजहार । सर्वत्र शाब्द: पर्यायो यथा --
 
नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥
 
सर्वोऽप्ययं शुद्धपर्याय: । संकोचपर्यायो यथा --
 
प्रायश्चरित्वा वसुधामशेषां छायासु विश्रम्य ततस्तरूणाम् ।
प्रौढं गते सम्प्रति तिग्मभानौ शैत्यं शनैरन्तरपामयासीत् ॥
 
अत्र शैत्यस्योत्तरोत्तरमाधारसंकोचासंकोचपर्याय:यः । विकासपर्यायो यथा --
 
बिम्बोष्ट एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना हृदयेऽप्ये मृगशावाक्षि दृश्यते ॥
 
अत्र रागस्य पूर्वाधारपरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः ॥ ११० ॥
 
एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि सम्मतः ।
अधुना पुलिनं तत्र यत्र स्रो[^१]तः पुराजनि ॥ ११९ ॥
 
यथावा --
 
पुराभूदस्माकं प्रथममविभिन्ना तनुरियं
ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः ।
 
[commentary]
 
धारसमाश्रयणांशे ॥ नन्विति ॥ हे कालकूट, उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्यां तादृशी इयमाश्रयस्थितिस्तव केनोपदिष्टेत्यन्वयः । हृदयेऽभ्यन्तरे । अवस इति शेषः । अथानन्तरं वृषलक्ष्मणो हरस्य कण्ठे । अधुना पुनरिति संबन्धः । शुद्धः संकोचविकासामिश्रितः ॥ प्राय इति ॥ शैत्यं प्रायोऽशेषां वसुधां हेमन्ते चरित्वा ततो वसन्ते तरूणां छायासु विश्रम्य संप्रति ग्रीष्मे
तिग्मभानौ सूर्ये प्रौढिं प्रागल्भ्यं प्राप्ते सति शनैरपां जलानामन्तरमभ्यन्तरे अयासीत् गच्छतिस्मेत्यर्थः ॥ बिम्बोष्ठ एवेति ॥ बिम्बफलसदृशे आष्ठे । रागो रक्तिमा अनुरागश्च । एष रागः । अत्र रागस्य भेदेऽप्यभेदाध्यवसायादेकत्वम् । यत्तु एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव लोके पर्यायपदप्रयोगाच्छ्रोणीबन्ध इति प्रकाशोदाहृते तथैव दृष्टत्वाञ्च्च बिम्बोष्ठ एवेत्यत्र पर्यायकथनमयुक्तमिति केनचिदुक्तं तत्प्रकाश एव बिम्बोष्ठ इत्युदाहरणे पर्यायसमर्थनाद्भ्रान्तप्रलपनमिवोपेक्षणीयम् । आलंकारिकपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकिंचित्करत्वाच्चेति दिक् ॥ ११० ॥ भेदान्तरमाह -- एकस्मिन्निति ॥ पर्यायेणेत्यनुवर्तते । एकस्मिन्नाधारे क्रमेण यद्यनेकंभवति सोऽपि पर्यायालंकारः संमत इत्यर्थः ॥ पुरेति ॥ अस्माकमिति 'अस्मदो द्वयोश्च' इति द्वयोरपि बहुवचनम् । पुरेत्यनेन स्थूलोऽतीतकाल उच्यते । तत्रापि प्रथमं तनुरविभिन्नाभूत् । ततो
 
[^१] 'श्रोतः'.