This page has been fully proofread once and needs a second look.

१२०
नयः
 
यथावा-
कुवलयानन्दः । [ पर्यायालंकारः ५१
 
यथासंख्यालंकारः ५०

 
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ।

शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥ १०९ ॥
 

 
यथावा --
 
शरणं किं प्रपन्नानि विषवन्मारयन्ति वा ।

न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥

अमुं क्रमालंकार इति केचिद्[^१]द्व्याजद्दुः ॥ १०९ ॥
 

 
--------------
 
पर्यायालंकारः ५१
 

 
पर्यायो यदि पर्यायेणैकस्याने संश्रयः ।
 

पद्मं मुक्त्वा गता चन्द्रं कामिनीवद[^२]नोपमा ॥ ११० ॥
 

 
अत्रैकस्य कामिनीवदनसादृश्यस्य क्रमेण पद्मचन्द्ररूपानेकाधारसंश्रयणं
पर्यायः । यद्यपि पद्मसंश्रयणं कण्ठतो नोक्तं तथापि पद्मं मुक्त्वेति तत्परित्या-
गोक्त्या प्राक् तत्संश्रयाक्षेपेण पर्यायनिर्वाहः । अतएव -
-
 
'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
 
-
 

पद्भ्
यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् ।

धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
 

त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥'
 
-
 

 
[commentary]
 
सुन्दरं त्वत्कीर्तेः कर्णभूषणं नीलोत्पलं विभातीत्यन्वयः । तूलः कार्पासः ।
प्रकृतार्थाशायां प्रकृतार्थरूपायामाशायाम् ॥ १०८ ॥ इति सारालंकारः ॥ ४९ ॥
यथासंख्यमिति ॥ क्रमिकाणां क्रमेणोक्तानां पदार्थानां तेनैव क्रमेणान्वयो
यथासंख्यंनामालंकारः ॥ शरणमिति ॥ कृपणेन धनानि यत् त्यज्यन्ते
तरिक
तत्किं तानि शरणं प्रपन्नानि, यच्च न भुज्यन्ते तकिं विषवन्मारयन्तीति

क्रमेणान्वयः । केचिद्वामनादयः ॥ १०९ ॥ इति यथासंख्यालंकारः ॥ ५० ॥
पर्याय इति ॥ पर्यायेण क्रमेण । अनेक संश्रयोऽनेकाश्रितत्वम् । तदुक्तम्-
-- 'एवं क्रमेणानेकस्मिन्पर्यायः' इति ॥ पद्ममिति ॥ रात्रौ पद्मसंकोचात्त्यागः ।
अतएव त्यागेन पूर्वसंश्रयणाक्षेपादेव ॥ श्रोणीति ॥ जघनबन्धस्तनुतां कृशतां
त्यजति । मध्यभागस्तां सेवते आश्रयति । वक्षःस्थलं कुचसचिवतां कुचसहितत्वं
धत्ते । वक्रं त्वद्वितीयम् । अत्र पूर्वं वक्षसोऽद्वितीयत्वावगमात्पर्यायसंसम्भवी ज्ञेयः ।

अद्वितीयत्वं द्वितीयरहितत्वमनुपमत्वं चैकत्वेनाध्यवसितम् । एवं चोदाहरणद्व-
येपि पूर्वाधारसमाश्रयणं गम्यमुत्तराधारसमाश्रयणं शाब्दमिति । सर्वत्र सर्वा

 
[^
]'द्व्यवजहु:'.
[^
]' वदनप्रभा'.