2023-04-26 09:12:36 by Bharadwajraki
This page has been fully proofread twice.
संग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥
अत्र येन येन सहसा यद्यत्समासादितमिति संक्षेपवाक्यस्थितमेकं समासादितपदं कोदण्डेन शरा इत्यादिषु षट्स्वपि विवरणवाक्येषु तत्तदुचितलिङ्गवचन विपरिणामेनान्वेतीति दीपकम् । शरादीनामुत्तरोत्तरविशेषणावाभदेकावली चेति दीपकैकावलीयोगः ॥ १०७ ॥
------------
सारालंकारः ४९
उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते ।
मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः ॥ १०८ ॥
यथावा -
अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते
सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार ।
धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र
त्वत्कीर्ते: कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥
अयं श्लाघ्यगुणोत्कर्षः । अश्लाघ्यगुणोत्कर्षो यथा --
तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥
उभयरूपो यथा --
गिरिर्महान्गिरेरब्धिर्महानन्धेर्नभो महत् ।
नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी ॥
अत्र ब्रह्मपर्यन्तेषु महत्त्वं श्लाघ्यगुणः । प्रकृतार्थाशायामश्लाघ्यगुणः ॥ १०८ ॥
-------------
[commentary]
दीपकालंकारः प्रकृताप्रकृतानां सादृश्यस्य गम्यत्वे तदङ्गीकारादिति भावः ॥ संग्रामेति ॥ कोदण्डेन धनुषा शराः समासादिताः शरैः शत्रुमस्तकं समासादितं तेन शत्रुमस्तकेनापि भूमण्डलं तेन भूमण्डलेन त्वं पालकः समासादितः भवता कीर्तिरासादिता कीर्त्या च लोकत्रयं समासादितमित्यनुषङ्गेणान्वयः ॥ १०७ ॥ इति मालादीपकम् ॥ ४८ ॥
उत्तरेति ॥ सार इति सारो नामालंकारः । तस्याः सुधातः ॥ अन्तरिति ॥ विष्णोरन्तरुदरे त्रयाणां लोकानां समाहारस्त्रिलोकी । सोऽपि विष्णुरपि फणिनां नागानामीश्वरे शेषे शेते निद्राति । सोऽपि शेषोऽपि सिन्धोरेकदेशे तिष्ठतीति शेषः । तमपि सिन्धुमपि कुम्भयोनिरगस्त्यञ्जुश्चुलकयांचकार पीतवान् । अयमगस्त्योऽपि नभसि गगने खद्योतशोभां धत्ते । इदं गगनमपि प्रेक्षणीयं
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥
अत्र येन येन सहसा यद्यत्समासादितमिति संक्षेपवाक्यस्थितमेकं समासादितपदं कोदण्डेन शरा इत्यादिषु षट्स्वपि विवरणवाक्येषु तत्तदुचितलिङ्गवचन
------------
सारालंकारः ४९
उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते ।
मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः ॥ १०८ ॥
यथावा -
अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते
सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार ।
धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र
त्वत्कीर्ते: कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥
अयं श्लाघ्यगुणोत्कर्षः । अश्लाघ्यगुणोत्कर्षो यथा --
तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥
उभयरूपो यथा --
गिरिर्महान्गिरेरब्धिर्महानन्धेर्नभो महत् ।
नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी ॥
अत्र ब्रह्मपर्यन्तेषु महत्त्वं श्लाघ्यगुणः । प्रकृतार्थाशायामश्लाघ्यगुणः ॥ १०८ ॥
-------------
[commentary]
दीपकालंकारः प्रकृताप्रकृतानां सादृश्यस्य गम्यत्वे तदङ्गीकारादिति भावः ॥ संग्रामेति ॥ कोदण्डेन धनुषा शराः समासादिताः शरैः शत्रुमस्तकं समासादितं तेन शत्रुमस्तकेनापि भूमण्डलं तेन भूमण्डलेन त्वं पालकः समासादितः भवता कीर्तिरासादिता कीर्त्या च लोकत्रयं समासादितमित्यनुषङ्गेणान्वयः ॥ १०७ ॥ इति मालादीपकम् ॥ ४८ ॥
उत्तरेति ॥ सार इति सारो नामालंकारः । तस्याः सुधातः ॥ अन्तरिति ॥ विष्णोरन्तरुदरे त्रयाणां लोकानां समाहारस्त्रिलोकी । सोऽपि विष्णुरपि फणिनां नागानामीश्वरे शेषे शेते निद्राति । सोऽपि शेषोऽपि सिन्धोरेकदेशे तिष्ठतीति शेषः । तमपि सिन्धुमपि कुम्भयोनिरगस्त्य