This page has not been fully proofread.

११८
 
कुवलयानन्दः । [ मालादीपकालंकारः ४८
 
एकावल्यलंकारः ४७
 
गृहीतमुक्तरीत्यार्थश्रेणिरेकावलिर्मता ।
 
नेत्रे कर्णान्तविश्रान्ते कर्णौ दो स्तम्भदोलितौ ॥१०५॥
दोस्तम्भौ जानुपर्यन्तप्रलैम्बनमनोहरौ ।
 

 
जानुनी रत्नमुकुराकारे तस्य हि भूभुजः ॥ १०६ ॥
 
उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावो वा
गृहीतमुक्तरीतिः । तत्राद्यः प्रकार उदाहृतः । द्वितीयो यथा -
दिक्कालात्मसमैव यस्य विभुता यस्ता विद्योतते
 
यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् ।
यस्तत्पित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे
वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥ १०५॥ १०६ ॥
 
मालादीपकालंकारः ४८
दीपकैकावलीयोगान्मालादीपकमिष्यते ।
 
स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ १०७॥
 
अत्र स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थितिः कृता हृदयेन त्वयि
स्थितिः कृतेत्येवं वाक्यद्वयान्वयि । अतो दीपकम् । गृहीतमुक्तरीतिसद्भावा-
देकावली चेति दीपकैकावलीयोगः । यथावा-
गृहीतेति ॥ वक्ष्यमाणया गृहीतमुक्तरीत्या निबद्धार्थपङ्गिरेकावलिरलंकारः ॥
नेत्रे इति ॥ तस्य भूभुज इति सर्वत्र संबध्यते । दोः स्तम्भयोर्भुजस्तम्भयोर्दोलि-
तमान्दोलनं ययोस्तौ । दोलनाविति पाठे दोला दोलनं ययोरस्तीति विग्रहः ।
रत्नमुकुरो रत्नदर्पणः ॥ दिक्कालेति ॥ दिक्कालात्मभिस्तुल्या यस्याकाशस्य वि
भुता । यश्च तत्राकाशे विशेषेण द्योतते सूर्यः । यत्र च चन्द्रे अमुष्य सूर्यस्य
किरणा अमृतरूपा भवन्ति । स च चन्द्रो यासामपां राशेः समुद्रादभूत् । यश्चा-
निस्तासामपां पित्तं भवति । 'शुचिरप्पित्तम्' इति कोशात् । यश्च यजमान उषःसु
प्रातःकालेऽप्यस्य वह्नेर्ह विषे हविर्दानाय भवति । यश्च वायुः प्राणरूपस्तस्य यज-
मानस्य जीवातवे जीवनौषधाय भवति । यस्याश्च पृथिव्या गुणं गन्धमेष वायु-
वढा ता मन्मथरिपोर्हरस्याष्टौ मूर्तयो वो युष्मापान्त्वित्यन्वयः ॥ १०५ ॥ १०६॥
इत्येकावल्यलंकारः ॥ ४७ ॥
 
मालादीपकमिति ॥ मालादीपकं नामालंकारः । एकमिति वाक्यद्वयान्व-
यीत्यनेनान्वितम् ॥ अत इति ॥ एतावन्मात्रेण दीपसादृश्याद्दीपकं नतु प्रागुत-
१ 'वली'. २ 'दोलनौ'. ३ 'प्रलम्बण'. ४ 'महीभुज: '. ५ 'मुच्यते'.