2023-04-26 09:06:26 by Bharadwajraki
This page has been fully proofread twice.
एकावल्यलंकारः ४७
गृहीतमुक्तरीत्यार्थश्रेणिरेका[^१]वलिर्मता ।
नेत्रे कर्णान्तविश्रान्ते कर्णौ दोःस्तम्भदोलि[^२]तौ ॥१०५॥
दोस्तम्भौ जानुपर्यन्तप्रल[^३]म्बनमनोहरौ ।
जानुनी रत्नमुकुराकारे तस्य हि[^४] भूभुजः ॥ १०६ ॥
उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावो वा गृहीतमुक्तरीतिः । तत्राद्यः प्रकार उदाहृतः । द्वितीयो यथा --
दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते
यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् ।
यस्तत्पित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे
वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥ १०५॥ १०६ ॥
--------------
मालादीपकालंकारः ४८
दीपकैकावलीयोगान्मालादीपकमि[^५]ष्यते ।
स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ १०७॥
अत्र स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थितिः कृता हृदयेन त्वयि स्थितिः कृतेत्येवं वाक्यद्वयान्वयि । अतो दीपकम् । गृहीतमुक्तरीतिसद्भावादेकावली चेति दीपकैकावलीयोगः । यथावा --
[commentary]
गृहीतेति ॥ वक्ष्यमाणया गृहीतमुक्तरीत्या निबद्धार्थपङ्क्तिरेकावलिरलंकारः ॥ नेत्रे इति ॥ तस्य भूभुज इति सर्वत्र संबध्यते । दोःस्तम्भयोर्भुजस्तम्भयोर्दोलितमान्दोलनं ययोस्तौ ।दोलनाविति पाठे दोला दोलनं ययोरस्तीति विग्रहः । रत्नमुकुरो रत्नदर्पणः ॥ दिक्कालेति ॥ दिक्कालात्मभिस्तुल्या यस्याकाशस्य विभुता । यश्च तत्राकाशे विशेषेण द्योतते सूर्यः । यत्र च चन्द्रे अमुष्य सूर्यस्य किरणा अमृतरूपा भवन्ति । स च चन्द्रो यासामपां राशेः समुद्रादभूत् । यश्चाग्निस्तासामपां पित्तं भवति । 'शुचिरप्पित्तम्' इति कोशात् । यश्च यजमान उषःसु प्रातःकालेऽप्यस्य वह्नेर्हविषे हविर्दानाय भवति । यश्च वायुः प्राणरूपस्तस्य यजमानस्य जीवातवे जीवनौषधाय भवति । यस्याश्च पृथिव्या गुणं गन्धमेष वायुर्वोढा ता मन्मथरिपोर्हरस्याष्टौ मूर्तयो वो युष्मान्पान्त्वित्यन्वयः ॥ १०५ ॥ १०६॥ इत्येकावल्यलंकारः ॥ ४७ ॥
मालादीपकमिति ॥ मालादीपकं नामालंकारः । एकमिति वाक्यद्वयान्वयीत्यनेनान्वितम् ॥ अत इति ॥ एतावन्मात्रेण दीपसादृश्याद्दीपकं नतु प्रागुक्त-
[^१] 'वली'.
[^२] 'दोलनौ'.
[^३] 'प्रलम्बण'.
[^४] 'महीभुजः'.
[^५] 'मुच्यते'.