2023-02-17 12:59:00 by ambuda-bot
This page has not been fully proofread.
कारणमालालंकारः ४६ ] अलंकार चन्द्रिकासहितः ।
११७
कार्यविरोधि
कार्यविशेषनिष्पादकतया केनचित्संभाव्यमानादर्थादन्येन
क्रियासौकर्येण समर्थ्यते चेत् सोऽपि व्याघातः । कार्यविरुद्ध क्रियायां सौकर्य
कारणस्य सुतरां तदानुगुण्यम् । यथा जैत्रयात्रोन्मुखेन राज्ञा युवराजस्य राज्य
एव स्थापने यत्कारणत्वेन संभावितं बाल्यं तत्प्रत्युत तद्विरुद्धस्य सहनयन-
स्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते ।
यथावा-
----
लुब्धो न विसृजत्यर्थ नरो दारिद्र्यशङ्कया ।
दातापि विसृजत्यथं तयैव ननु शङ्कया ॥
अत्र पूर्वोत्तरार्धे पक्षप्रतिपक्षरूपे कयोश्चिद्वचने इति लक्षणानुगतिः ॥१०३॥
कारणमालालंकारः ४६
गुम्फः कारणमाला स्यांद्यथाप्राक्प्रान्तकारणैः ।
नयेन श्री श्रित्या त्यागस्त्यागेन विपुलं यशः ॥ १०४॥
उत्तरोत्तरकारणभूतपूर्व पूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभिः कृतो
गुम्फः कारणमाला । आद्योदाहृता । द्वितीया यथा -
भवन्ति नरकाः पापात्पापं दारिद्र्यसंभवम् ।
दारिद्र्यमप्रदानेन तस्माद्दानपरो भवेत् ॥ १०४ ॥
येणेति ॥ कारणस्यानुगुण्याधिक्येनेत्यर्थः । निबद्धा कविवर्णिता । कार्यविरोधिनी
पराभिमतकार्यविरुद्धा ॥ दयेति ॥ दिग्विजयाय प्रस्थितं राजानं प्रति युवराज-
स्योक्तिः । बाल इत्यतो मयि दया यौवराज्ये स्थापनरूपा चेत्तदा तस्मादेव हे
तोरहं तवापरित्याज्य एव किंतु स्वेन सह नेतव्य इत्यर्थः । अर्थाविति हेतौ
पञ्चमी । अन्वयश्चास्य समर्थ्यते इत्यनेन । अन्येन वा ॥ जैत्रेति ॥ जयसाध-
नेत्यर्थः ॥ लुब्ध इति ॥ तयैव शङ्कया दारिद्र्यशशङ्कयैव । ननु निश्चितम् अत्र
पूर्वार्धे लुब्धस्य दानाभावसाधकत्वाभिमतदारिद्र्यशङ्कारूपपूर्वपक्षनिरूपणम् । दा-
तुस्तु सैव विरुद्धदान साधकत्वेन संमतेति पूर्वविरुद्धपक्षनिरूपणमुत्तरार्धे । यद्यपि
दारिद्र्यस्य तात्कालिकत्वेन जन्मान्तरीयत्वेन च शङ्का भिन्ना तथाप्य भेदाध्यवसा-
यान्न लक्षणासमन्वय इति बोध्यम् । सामान्यलक्षणं पूर्ववदन्यतमत्वघटितमनु-
संधेयमिति दिक् ॥ १०३ ॥ इति व्याघातालंकारः ॥ ४५ ॥
-
गुम्फ इति ॥ रचनेत्यर्थः । कैस्तत्राह —– यथेति ॥ प्राकू च प्रान्तं च
प्राक्प्रान्ते ते अनतिक्रम्येति यथाप्राक्प्रान्तं यानि कारणानि तैः । पूर्वं पूर्वं प्रति
कारणैरुत्तरोत्तरं प्रति कारणैश्चेत्यर्थः । एवं चोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमु-
दाहरणक्रमानुरोधेनेति ज्ञेयम् ॥ १०४ ॥ इति कारणमालालंकारः ॥ ४६ ॥
१ 'यदा'. २ 'ऽभवत्'.