2023-04-26 09:00:04 by Bharadwajraki
This page has been fully proofread twice.
कार्यविशेषनिष्पादकतया केनचित्संभाव्यमानादर्थादन्येन क्रियासौकर्येण समर्थ्यते चेत् सोऽपि व्याघातः । कार्यविरुद्धक्रियायां सौकर्यं कारणस्य सुतरां तदानुगुण्यम् । यथा जैत्रयात्रोन्मुखेन राज्ञा युवराजस्य राज्य एव स्थापने यत्कारणत्वेन संभावितं बाल्यं तत्प्रत्युत तद्विरुद्धस्य सहनयनस्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते ।
यथावा --
लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया ।
दातापि विसृजत्यर्थं तयैव ननु शङ्कया ॥
अत्र पूर्वोत्तरार्धे पक्षप्रतिपक्षरूपे कयोश्चिद्वचने इति लक्षणानुगतिः ॥१०३॥
-------------
कारणमालालंकारः ४६
गुम्फः कारणमाला स्या[^१]द्यथाप्राक्प्रान्तकारणैः ।
नयेन श्री श्रित्या त्यागस्त्यागेन विपुलं यशः ॥ १०४॥
उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभिः कृतो गुम्फः कारणमाला । आद्योदाहृता । द्वितीया यथा --
भवन्ति नरकाः पापात्पापं दारिद्र्यसंभवम् ।
दारिद्र्यमप्रदानेन तस्माद्दानपरो [^२]भवेत् ॥ १०४ ॥
[commentary]
र्येणेति ॥ कारणस्यानुगुण्याधिक्येनेत्यर्थः । निबद्धा कविवर्णिता । कार्यविरोधिनी पराभिमतकार्यविरुद्धा ॥ दयेति ॥ दिग्विजयाय प्रस्थितं राजानं प्रति युवराजस्योक्तिः । बाल इत्यतो मयि दया यौवराज्ये स्थापनरूपा चेत्तदा तस्मादेव हेतोरहं तवापरित्याज्य एव किंतु स्वेन सह नेतव्य इत्यर्थः । अर्थाविति हेतौ पञ्चमी । अन्वयश्चास्य समर्थ्यते इत्यनेन । अन्येन वक्त्रा ॥ जैत्रेति ॥ जयसाधनेत्यर्थः ॥ लुब्ध इति ॥ तयैव शङ्कया दारिद्र्यशङ्कयैव । ननु निश्चितम् अत्र पूर्वार्धे लुब्धस्य दानाभावसाधकत्वाभिमतदारिद्र्यशङ्कारूपपूर्वपक्षनिरूपणम् । दातुस्तु सैव विरुद्धदानसाधकत्वेन संमतेति पूर्वविरुद्धपक्षनिरूपणमुत्तरार्धे । यद्यपि दारिद्र्यस्य तात्कालिकत्वेन जन्मान्तरीयत्वेन च शङ्का भिन्ना तथाप्यभेदाध्यवसायान्न लक्षणासमन्वय इति बोध्यम् । सामान्यलक्षणं पूर्ववदन्यतमत्वघटितमनुसंधेयमिति दिक् ॥ १०३ ॥ इति व्याघातालंकारः ॥ ४५ ॥
गुम्फ इति ॥ रचनेत्यर्थः । कैस्तत्राह -- यथेति ॥ प्राक् च प्रान्तं च प्राक्प्रान्ते ते अनतिक्रम्येति यथाप्राक्प्रान्तं यानि कारणानि तैः । पूर्वं पूर्वं प्रति कारणैरुत्तरोत्तरं प्रति कारणैश्चेत्यर्थः । एवं चोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमुदाहरणक्रमानुरोधेनेति ज्ञेयम् ॥ १०४ ॥ इति कारणमालालंकारः ॥ ४६ ॥
[^१] 'यदा'.
[^२] 'ऽभवत्'.