This page has been fully proofread twice.

यथावा --
 
हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्ये[^१]से ।
वत्स राम गतोऽसीति संतापेनानुमीयसे ॥ १०० ॥
 
किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः ।
त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥ १०१ ॥
 
यथावा --
 
स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥
 
अत्राद्ये राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्त्वन्तरकृतिः । द्वितीये राजसृष्ट्यारम्भेण मनोभ्वादिसृष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥ १०१ ॥
 
--------------

 
व्याघातालंकारः ४५
 
स्या[^२]द्व्याघातोऽन्यथाकारि तथाकारि क्रियेत चेत् ।
यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥ १०२ ॥
 
यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनं क्रियेत चेत्स व्याघातः । यद्वा । यत्साधनतया केनचिदुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्विरुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः । तत्राद्य उदाहृतः ।
 
द्वितीयो यथा --
 
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १०२ ॥
 
सौकर्येण निबद्धापि क्रिया [^३]कार्यविरोधिनी ।
दया चेद्बाल इति मय्यपरित्याज्य एव ते ॥ १०३ ॥
 
[commentary]
 
यदीति ॥ १०० ॥ तृतीयं प्रकारमाह -- किंचिदिति ॥ किंचित्पदार्थारम्भेणाशक्यस्य वस्त्वन्तरस्य कृतिः करणं च सः विशेषः । त्वामिति प्रभुं प्रति याचकोक्तिः ॥ स्फुरदिति ॥ उत्कटः प्रतापरूपो ज्वलनोऽग्निर्यस्येत्यर्थः । उक्तविशेषणं त्वां सृजता विधिना भुवि नवो मनोभवादिः ससृजे सृष्ट इति सत्यमित्यन्वयः । अत्र चोक्तभेदत्रयान्यतमत्वं सामान्यलक्षणं बोध्यम् ॥ १०१ ॥ इति विशेषालंकारः ॥ ४४ ॥
 
स्यादिति ॥ तथाकारि तत्कार्यसाधनवस्तु अन्यथाकारि तत्कार्यविरुद्धकार्यसाधनं चेत्क्रियेत तदा व्याघातोऽलंकारः स्यादित्यर्थः ॥ यैरिति ॥ यैः कटाक्षविभ्रमादिभिर्जगत्प्रीयते संतुष्यति तैरेव कुसुमायुधो हन्तीत्यन्वयः । विरूपाक्षस्य हरस्य जयिनीर्विजयकारिणीः । स्तुवे स्तौमि ॥ १०२ ॥ भेदान्तरमाह -- सौक-
 
[^१] 'दृश्यते'.
[^२] ' स्यादुद्धातो'.
[^३] 'कार्याविरो'.