This page has been fully proofread once and needs a second look.

यथावा -
कुवलयानन्दः । [ व्याघातालंकार : ४५
 
-
 
हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्ये[^१]से ।
 

वत्स राम गतोऽसीति संतापेनानुमीयसे ॥ १०० ॥

 
किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः ।

त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥ १०१ ॥
 

 
यथावा -
-
 
स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् ।

विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥

 
अत्राद्ये राजदर्शनारम्भेण कल्पवृक्षदर्शन रूपाशक्यवस्त्वन्तरकृतिः । द्वि-
तीये राजसृष्ट्यारम्भेण मनोभ्वादिसृष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥ १०१ ॥
 

 
व्याघातालंकारः ४५
 
स्यां

 
स्या[^२]द्
व्याघातोऽन्यथाकारि तथाकारि क्रियेत चेत् ।

यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥ १०२ ॥
 

 
यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनं क्रियेत चेत्स व्या-
घातः । यद्वा । यत्साधनतया केनचिदुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्वि-
रुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः । तत्राद्य उदाहृतः ।
 

 
द्वितीयो यथा -
 
-
 
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
 

विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १०२ ॥

 
सौकर्येण निबद्धापि क्रिया कार्य [^३]कार्यविरोधिनी ।
 

दया चेद्धाबाल इति मय्यपरित्याज्य एव ते ॥ १०३ ॥
 
-
 

 

 
[commentary]
 
यदीति ॥ १०० ॥ तृतीयं प्रकारमाह -- किंचिदिति ॥ किंचित्पदार्थारम्भे-
गा
णाशक्यस्य वस्त्वन्तरस्य कृतिः करणं च सः विशेषः । त्वामिति प्रभुं प्रति याच-
कोक्तिः ॥ स्फुरदिति ॥ उत्कटः प्रतापरूपो ज्वलनोऽग्निर्यस्येत्यर्थः । उक्तवि-
शेषणं त्वां सृजता विधिना भुवि नवो मनोभवादिः ससृजे सृष्ट इति सत्यमित्य-
न्वयः । अत्र चोक्तभेदत्रयान्यतमत्वं सामान्यलक्षणं बोध्यम् ॥ १०१ ॥ इति
विशेषालंकारः ॥ ४४ ॥
 

 
स्यादिति ॥ तथाकारि तत्कार्यसाधनवस्तु अन्यथाकारि तत्कार्यविरुद्धकार्य-
साधनं चेत्क्रियेत तदा व्याघातोऽलंकारः स्यादित्यर्थः ॥ यैरिति ॥ यैः कटाक्ष-
विभ्रमादिभिर्जगत्प्रीयते संतुष्यति तैरेव कुसुमायुधो हन्तीत्यन्वयः । विरूपाक्षस्य
हरस्य जयिनीर्विजयकारिणीः । स्तुवे स्तौमि ॥ १०२ ॥ भेदान्तरमाह -- सौक-

 
[^१]
' दृश्यते'.
[^
] ' स्यादुद्धातोंतो'.
[^
] 'कार्याविरो'.