This page has been fully proofread twice.

स्वाखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसंपादनेनोपकारः कृतः । अत्रोभयोर्व्यापाराभ्यां स्वस्वोपकारसद्भावेऽपि परस्परोपकारोऽपि न निवार्यते ॥ ९८ ॥
 
---------------

 
विशेषालंकारः ४४
 
विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् ।
गतेऽपि सूर्ये दीपस्थास्तमच्छिन्दन्ति तत्कराः ॥ ९९ ॥
 
यथावा --
 
कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥
 
अत्राद्ये सूर्यस्य प्रसिद्धाधारस्याभावेऽपि तत्कराणामन्यत्रावस्थितिरुक्ता । द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यत्रावस्थितिरुक्ता । क्वचित्प्रसिद्धाधाररहितानामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थितेर्वर्णनं दृश्यते । यथावा --
 
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥
 
अत्र कवीनामभावेऽपि तद्गिरामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थितिर्वर्णिता ॥ ९९ ॥
 
विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते ।
अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ १०० ॥
 
[Commentary]
 
अत एवेदृस्थल एव । 'निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवोद्दण्डपादो भवान्या' इत्यत्राभवन्मतयोगत्वं दूषणमुदाहृतं मम्मटभटैः काव्यप्रकाशिकायाम् । अन्यत्र तु न स्वविशेष्यगामित्वनियमः । स्वाश्रितानां विप्राणामयं पालकः स्वाज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात् । नचैवं स्वदाररतानां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीतिः स्यादिति वाच्यम् । तात्पर्यस्य नियामकत्वेनापत्त्यभावादिति ॥९८ ॥ इत्यन्योन्यालंकारः ४३
 
विशेष इति ॥ ख्यातं प्रसिद्धम् । तदुक्तम् -- 'विना प्रसिद्धमाधारमाधेयस्य त्र्व्यवस्थितिः' इति । छिन्दन्ति नाशयन्ति । तत्कराः सूर्यकिरणाः । रात्रावादित्याग्नौ प्रवेशश्रवणाद्दीपस्थत्वम् ॥ कमलमिति ॥ अत्र कमलत्वादिना मुखादेरव्यवसानं बोध्यम् । कुवलये नेत्रे । एतानि कमलकुवलयानि कनकलतारूपायां कामिन्याम् । सा च कनकलतिका च । निर्देशः कथनम् । आप्रलयं प्रलयपर्यन्तम् ॥ दिवमिति ॥ दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिरः आकल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्यन्वयः ॥ ९९ ॥ प्रभेदान्तरमाह --