This page has been fully proofread twice.

अल्पालंकारः ४२
 
अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता ।
मणिमालोर्मिका तेऽद्य करे जपवटीयते ॥ ९७ ॥
 
अत्र मणिमालामयोर्मिका तावदङ्गुलिमात्रपरिमितत्वात्सूक्ष्मा सापि विरहिण्याः करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावल्लम्बत इत्युक्त्या ततोऽपि करस्य विरहकार्श्यादतिसूक्ष्मता दर्शिता । यथावा --
 
यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते ।
मृणालसूत्रमपि ते न संभामाति स्तनान्तरे ॥ १७ ॥
 
---------------
 
अन्योन्यालंकारः ४३
 
अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् ।
त्रियामा शशिना भाति शशी भाति त्रियामया ॥ ९८ ॥
 
यथावा --
 
यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः ।
तथा प्रपापालिकापि धारां वितनुते तनुम् ॥
 
अत्र प्रपापालिकायाः पथिकेन स्वासक्त्या पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः । तथा प्रपापालिकयापि पानीयपानव्याजेन चिरं स्वमु-
 
[commentary]
 
अल्पमिति ॥ यदिति सामान्ये नपुंसकम् । स्वापेक्षया सूक्ष्मादाधेयादाधारस्य सूक्ष्मता यत्तदल्पं नामालंकारः ॥ मणीति ॥ मणिपङ्क्तिरूपा ऊर्मिका अङ्गुलीयकं ते करे अद्य विरहावस्थायां जपमालायत इत्यर्थः । वटीशब्दस्य गुटिकापर्यायत्वात् । अतिसूक्ष्मता आधेयभूतमालापेक्षयापि सूक्ष्मता ॥ यदिति ॥ हे चञ्चलाक्षि, तव मध्यभागादपि यत्सूक्ष्मं दृश्यते तत् मृणालसूत्रमपि तव
स्तनयोरन्तरे मध्ये न मातीयन्वयः ॥ ९७ ॥ इत्यल्पालंकारः ॥ ४२ ॥
 
अन्योन्यमिति ॥ यत्र परस्परमुपकारः स्यात्तत्रान्योन्यं नामालंकरः । त्रियामा रात्रिः ॥ यथेति ॥ ऊर्ध्वाक्ष ऊर्ध्वनयनः । प्रपापालिका प्रपादानाधिकृता काचिद्वनिता । धारां जलधाराम् । तनुं सूक्ष्माम् ॥ अत्रेति ॥ प्रपापालिकायाः पथिकेनोपकारः कृत इत्यन्वयः । स्वासक्त्येत्यादि प्रपापालिकाया विशेषणम् । संपादनेन करणभूतेन । एवं प्रपापालिकयापि पथिकस्योपकारः कृत इत्यन्वयः । यत्तु स्वमुखावलोकनमभिलषन्त्या इत्यत्र स्वशब्दस्य प्रपापालिकाबोधकत्वमेव
न्याय्यं न पान्थबोधकत्वं यद्विशेषणघटकत्वेन स्वनिजादिशब्दा उपात्तास्तद्बोधका इति व्युत्पत्तिरिति कैश्चिदुक्तम् । तदयुक्तम् । मुख्यविशेष्यविशेषणघटकस्यैव स्वनिजादिशब्दस्य मुख्यविशेष्यमात्रगामित्वव्युत्पत्तेः । यथा देवदत्तस्य पुत्रः स्वमातृभक्त इत्यादौ स्वशब्दस्य तादृशपुत्रगामित्वम्, नतु गुणभूतदेवदत्तगामित्वम्,