This page has not been fully proofread.

आधकालकारः ४१ । अलकारचान्द्रकासाहतः ।
 
अधिकालंकारः ४१
 
अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् ।
 
ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥ ९५॥
अत्र यत्र महाजलौघेऽनन्तानि ब्रह्माण्डानि बुहुदकल्पानीत्याधारस्याति-
विशालत्वं प्रदर्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम् ।
 
यथावा-
तिभावः
 
आधागण
 
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत ।
तनौ ममुस्तन्त्र न कैटभद्विपस्तपोधनाभ्यागमसंभवा मुदः ॥ १५ ॥
पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् ।
किया यते विश्राम्यन्ति गुणास्तव ॥ ९६ ॥
 
अत्रैत इति प्रत्यक्षदृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राम्यन्तीत्यसंबाधा-
वस्थानोत्तयाधारस्य वाग्ब्रह्मण आधिक्यं वर्णितम् । यथावा-
अहो विशालं भूपाल भुवनत्रितयोदरम् ।
 
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥
 
११३
 
CONS
 
अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वाग्ब्रह्मेति अहो विशालमिति चाधारयोः
प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवत्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणय-
शोराश्यधिकरणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुत-
गुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥ ९६ ॥
 
जगन्ति त्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९४ ॥ इति विचित्रालंकारः ४०
अधिकमिति ॥ पृथुलादाधेयापेक्षया विशालादाधारादाधेयस्याधिक्यवर्णन-
मेकोऽधिकालंकारः ॥ युगान्तेति ॥ युगान्तकाले प्रलये प्रतिसंहृतः स्वस्मिँल्लयं
प्रापित आत्मा स्खविलासरूपः प्रपञ्चो येन तादृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां
तनौ जगन्ति भुवनानि विकाशसहितं यथा स्यात्तथा आसत स्थितानि तत्र
तस्यां तनौ तपोधनस्य नारदस्याभ्यागमात्संभवो यासां ता मुदः प्रीतयो न
ममुरित्यन्वयः ॥९५॥ पृथ्विति ॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधि-
कम् ॥ कियदिति ॥ अपरिमितमित्यर्थः । वाक् शब्द एव ब्रह्म । इयं च परमे-
श्वरं प्रति भक्तस्योक्तिः ॥ असंबाधेति ॥ असंकटेत्यर्थः ॥ अहो इति ॥ माति
संमाति । मातुमशक्योऽपरिमितः । अत्र भुवनत्रयोदरे । नन्वाधारयोः शब्द-
ब्रह्मभुवनोदरयोरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदाधिक्यवर्णनमयुक्तमित्याशङ्ख्याह-
अत्रेति ॥ न चात्राप्रस्तुतप्रशंसा शङ्कनीया प्रस्तुतस्याप्यभिधानादिति । इत्थं
चाधाराधेयान्यतरस्य तनोरप्याधिक्यवर्णन मिति सामान्यलक्षणं बोध्यम् ॥ ९६ ॥
इत्यधिकालंकारः ॥ ४१ ॥
 
१ ' तदपि वर्ण्यते'.