This page has been fully proofread twice.

अधिकालंकारः ४१
 
अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् ।
ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥ ९५॥
 
अत्र यत्र महाजलौघेऽनन्तानि ब्रह्माण्डानि बुद्बुदकल्पानीत्याधारस्यातिविशालत्वं प्रदर्श्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम् । यथावा --
 
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत ।
तनौ ममुस्तन्नत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥ १५ ॥
 
पृथ्वाधेयाद्यदाधाराधिक्यं त[^१]दपि तन्मतम् ।
कियद्वाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥ ९६ ॥
 
अत्रैत इति प्रत्यक्षदृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राम्यन्तीत्यसंबाधावस्थानोक्त्याधारस्य वाग्ब्रह्मण आधिक्यं वर्णितम् । यथावा --
 
अहो विशालं भूपाल भुवनत्रितयोदरम् ।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥
 
अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वाग्ब्रह्मेति अहो विशालमिति चाधारयोः प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवत्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणयशोराश्यधिकरणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुतगुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥ ९६ ॥
 
--------------

 
[commentary]
 
जगन्ति त्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९४ ॥ इति विचित्रालंकारः ४०
 
अधिकमिति ॥ पृथुलादाधेयापेक्षया विशालादाधारादाधेयस्याधिक्यवर्णनमेकोऽधिकालंकारः ॥ युगान्तेति ॥ युगान्तकाले प्रलये प्रतिसंहृतः स्वस्मिँल्लयं प्रापित आत्मा स्वविलासरूपः प्रपञ्चो येन तादृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति भुवनानि विकाशसहितं यथा स्यात्तथा आसत स्थितानि तत्र तस्यां तनौ तपोधनस्य नारदस्याभ्यागमात्संभवो यासां ता मुदः प्रीतयो न
ममुरित्यन्वयः ॥९५॥ पृथ्विति ॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधिकम् ॥ कियदिति ॥ अपरिमितमित्यर्थः । वाक् शब्द एव ब्रह्म । इयं च परमेश्वरं प्रति भक्तस्योक्तिः ॥ असंबाधेति ॥ असंकटेत्यर्थः ॥ अहो इति ॥ माति संमाति । मातुमशक्योऽपरिमितः । अत्र भुवनत्रयोदरे । नन्वाधारयोः शब्दब्रह्मभुवनोदरयोरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदाधिक्यवर्णनमयुक्तमित्याशङ्क्याह --
अत्रेति ॥ न चात्राप्रस्तुतप्रशंसा शङ्कनीया प्रस्तुतस्याप्यभिधानादिति । इत्थं चाधाराधेयान्यतरस्य तनोरप्याधिक्यवर्णनमिति सामान्यलक्षणं बोध्यम् ॥ ९६ ॥ इत्यधिकालंकारः ॥ ४१ ॥
 
[^१] 'तदपि वर्ण्यते'.