This page has been fully proofread once and needs a second look.


 
द्विषां संपदमाच्छिद्य यः शत्रून्समपूरयत् ॥ २४ ॥

 
अस्थानस्थसमासन्नविद्वज्जनमनोरमम् ।

मिथः पृथग्वाक्यपदैः संकीर्णं यत्तदेव तत् ॥ २५ ॥
वक्

 
वक्त्
रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ।

ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूरिभूषणम् ॥ २६ ॥

 
आकर्णय पयःपूर्णसुवर्णकलशायते ।

भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता
 
॥ २७ ॥
 

 
अक्रमः कृष्ण पूज्यन्ते त्वामनाराध्य देवताः ।

अमत्तार्थान्तरं मुख्येऽमुख्ये वार्थे विरोधकृत् ॥ २८ ॥

 
त्यक्तहारमुरः कृत्वा शोकेनालिङ्गिताङ्गना ।

अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् ॥ २९ ॥

 
विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः ।

कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसंनिभः ॥ ३० ॥

 
व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः ।

सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते ॥ ३१ ॥

 
कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ।

दुःक्रमग्राम्यसंदिग्धास्त्रयो दोषाः क्रमादमी ॥ ३२ ॥

 
त्वद्भक्तः कृष्ण गच्छेयं नरकं स्वर्गमेव वा ।

एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् ॥ ३३ ॥

 
ब्रूत किं सेव्यतां चन्द्रमुखीचन्द्र किरीटयोः ।

अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ॥ ३४ ॥

 
प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ।

न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः ॥ ३५ ॥

 
केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् ।

सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा ॥ ३६ ॥

 
विशेषपरिवृत्तिः स्याद्दयिता मम चेतसि ।
 

द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती ॥ ३७ ॥

 
ध्वाङ्क्षाः सन्तश्च तनयं स्वं परं च न जानते ।

सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय ॥ ३८ ॥

 
मालयिष्यति ते गोत्रमसौ नरपुरन्दरः ।

पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके ॥ ३९ ॥

 
यथानुसारमभ्यूहेद्दोषाञ्छब्दार्थसंभवान् ।

दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् ॥ ४० ॥

 
निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् ।

दोषो गुणत्वं तनुते दोषत्वं वा निरस्यति ॥ ४१ ॥