This page has not been fully proofread.

११२
 
कुवलयानन्दः । [विचित्रालकार:४०
 
यत्रेष्टार्थावाप्तिसत्त्वेऽपि श्लेषवशादसतोऽनिष्टार्थस्य प्रतीतिस्तत्रापि समालं-
कारस्य न क्षतिः । यथा -
 
शस्त्रं नखलु कर्तव्यमिति पित्रा नियोजितः ।
तदेव शस्त्रं कृतवान्पितुराज्ञा न लङ्घिता ॥
 
अत्र पितुराज्ञा लङ्घितेत्यनेन विरोधालंकाराभिव्यक्त्यर्थ नखल्वियत्र
पदद्वयविभागात्मकरूपान्तरस्यापि विवक्षायाः सत्त्वेऽपि नखं लुनातीति
नखल्वित्येक पदत्वेन वस्तुसदर्थान्तरपर रूपान्तरमादाय समालंकारोऽध्यस्त्येव ।
श्लेषलब्धाऽसदिष्टावाप्तिप्रतीतिमात्रेणापि गतमुदाहरणम् । यथा -
सत्यं तपः सुगत्यै यत्तहवाम्बुषु रविप्रतीक्षं सत् ।
 
अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तकमनीयम् ॥ ९३ ॥
 
विचित्रालंकारः ४०
: विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया ।
नमन्ति सन्तत्रैलोक्यादपि लब्धं समुन्नतिम् ॥ ९४ ॥
 
यथावा-
-
 
मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते ।
मित्राह्लादं कर्तुं मित्राय दुह्यति प्रतापोऽपि ॥ ९४ ॥
 
वादिति । इष्टार्थावाप्तिसत्त्वेऽपि वास्तविकेष्टार्थप्राप्तिसत्त्वेऽपि ॥ न क्षतिरिति ॥
अनिष्टाप्रतीतेराभासरूपत्वेनापर्यवसानादिति भावः ॥ शस्त्रमिति ॥ तदेव
नखल्वेव । एकपदत्वेनेत्युपलक्षणे तृतीया । एकपदत्वोपलक्षितं यद्वस्तुसदर्थान्त-
रपरं रूपान्तरमित्यर्थः । अर्थान्तरं च वास्तविकं पदव्युत्पत्तिकथनेन दर्शितमेव ।
श्लेषलब्धेति ॥ श्लेषेण लब्धा असती वस्तुतोऽविद्यमाना या इष्टावाप्तिप्रतीति-
र्व्यवच्छेदः । युक्तो वारणलाभोऽयमित्यत्र किंचिदनिष्टस्योच्चै रित्यत्र चोत्कटानिष्टस्य
प्रतीतिसत्त्वादुदाहरणान्तरमाह - यथेति ॥ नायिकां प्रति नायकस्योक्तिः । हे
तन्वि, तपः शोभनगत्यैव भवतीति सत्यम् । यद्यस्मादब्जं कमलबम्बुषु जलेषु
रविं प्रतीक्षते तादृशं सत्तहवा तपः कृत्वा त्वत्पदरूपे जन्मनि समस्तेभ्यः
कमलेभ्यः कमनीयं सुन्दरं सत् सुगतिं शोभनां गतिमनुभवतीत्यन्वयः । अत्र
कमलस्योत्तमलोकरूपगतिप्राप्तये तपस्यतस्तदला भेऽपि शोभनगमनस्य गतिशब्द-
श्लेषवलादिष्टत्वेन प्रतीते रिष्टावाप्तिप्रतीतिमात्रं नत्वनिष्टप्रतिभासोऽपीति ॥ ९३ ॥
इति समालंकारप्रकरणम् ॥ ३९ ॥
 
विचित्रमिति ॥ फलेच्छया विपरीतः प्रयत्नश्चेद्विचित्रं नामालंकारः । इष्ट-
विपरीताचरणमिति यावत् ॥ नमन्तीति ॥ नम्रीभवन्तीत्यर्थः । समुन्नतिमुच्च-
ताम् ॥ मलिनयितुमिति ॥ मलिनीकर्तुमित्यर्थः । विमलयति विमलीकरोति ।
 
१ 'विपरीतफलेच्छ्या'.