This page has not been fully proofread.

समालंकार: ३९]
 
अलंकार चन्द्रिकासहितः ।
 
पूर्वत्र कारणस्वभावानुरूप्यं कार्यस्यात्रागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति
भेदः ॥ ९२ ॥
 
१११
 

 
' विनानिष्टं च तत्सिद्धिर्यमर्थं कर्तुमुद्यतः ।
 
युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः ॥ ९३ ॥
 
-
 
इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपि संगृहीतस्य त्रिविधस्यापि विषमस्य प्रति-
द्वन्द्वि । इष्टावाप्रनिष्टस्याप्रसङ्गाच्च । अत्र गजार्थितया राजानमुपसर्पन्तं त
हौवारिकैर्वार्थमाणं प्रति नर्मवचनमुदाहरणम् । नचात्र निवारणमनिष्टमाप-
नमित्युदाहरणत्वं शङ्कजीयम् । राजद्वारि क्षणनिवारणं संभावितमिति तद -
ङ्गीकृत्य प्रवृत्तस्य विपमालंकारोदाहणेष्विवातर्कितोत्कटानिष्टापत्यभावात् ।
किंच यत्रातर्कितोत्कटानिष्टसचे श्लेषमहिम्ना इष्टार्थत्व प्रतीतिस्तत्रापि समा-
लंकारोऽप्रतिहत एव ।
 
उच्चैर्गजैरटनमर्थयमान एव
 
त्वामाश्रयन्निह चिरादुपितोऽस्मि राजन् ।
उच्चाटनं त्वमपि लम्भयसे तदेव
 
मामद्य नैव विफला महतां हि सेवा ॥
 
अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकार-
स्तथापि प्राथमिक स्तुतिरूपवाच्यविवक्षायां समालंकारो न निवार्यते । एवं
 
-
 
आदौ हालाहलरूपेण हुतभुजाग्निना दत्तो हस्तावलम्बो यस्य सः । निटिलं ललाटं
तत्संबन्धिमहसा नेत्राग्निना बद्धया संवद्धया मैत्र्या निरूढः प्रसिद्धः । प्रौढो युवा
राहोर्मुखसंबन्धिभिर्विषैरन्तरङ्गीकृतः । ग्रहणकाले संपर्कातिशयादन्तरङ्गतां प्रापित
इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपत्वम् ॥ ९२ ॥
भेदान्तरमाह – विनेति ॥ अनिष्टं विना यमर्थं कर्तुमुद्यतस्तत्सिद्धिरपि सममि-
त्यनुवृत्त्या योज्यम् । यदर्थमिति पाठे यश्चासावर्थचेत्यर्थः ॥ युक्त इति ॥ वा-
रणं निवारणम् । वारणो युक्तो न स्यादपितु स्यादेवेत्यर्थः । शोभत इति
कचित्पाठः साधुरेव । अपिसंगृहीतस्यापिशब्दसंगृहीतस्य । नर्मवचनं परिहासवच-
नम् । अत्रेष्टावाप्तिः श्लेषकल्पिता बोध्या ॥ इष्टार्थत्व प्रती तिरिति ॥ इष्टार्थत्वेन
प्रतीतिरित्यर्थः ॥ अप्रतिहत इति ॥ अनिष्टस्येष्टाभिन्नत्वेन ज्ञानकालेऽनिष्टत्वे-
नाप्रतिभासादिति भावः ॥ उच्चैरिति ॥ गजैरटनं तदारोहणपूर्वकं गमनम् ।
इह त्वन्नगरे उषितोऽस्मि वासं कृतवानस्मि । तदेव मत्प्रार्थ्यमानमेव । उच्चाटनं
दूरनिरसनमेव । उच्चैर्गजैरटनं प्रति मां लम्भय से प्रापयसि । हि यस्मात् महतां
सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहेण
विषमालंकारस्फूर्त्या निन्दायां पर्यवसितम् । एतेन वैषम्यस्य निन्दारूपस्य व्याज-
स्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दामूलत्वेन तद्रूपत्वाभा-
१ ' विना यलेन तत्सिद्धिर्यदर्थम्'. २ 'जातस्ते'; 'शोभते'. ३ 'प्रतिपत्ति: '.