2023-04-26 07:37:56 by Bharadwajraki
This page has been fully proofread twice.
पूर्वत्र कारणस्वभावानुरूप्यं कार्यस्यात्रागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति
भेदः ॥ ९२ ॥
[^१]विनानिष्टं च तत्सिद्धिर्यमर्थं कर्तुमुद्यतः ।
युक्तो वारणलाभोऽयं स्या[^२]न्न ते वारणार्थिनः ॥ ९३ ॥
इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपिसंगृहीतस्य त्रिविधस्यापि विषमस्य प्रतिद्वन्द्वि । इष्टावाप्तेरनिष्टस्याप्रसङ्गाच्च । अत्र गजार्थितया राजानमुपसर्पन्तं तद्दौवारिकैर्वार्यमाणं प्रति नर्मवचनमुदाहरणम् । नचात्र निवारणमनिष्टमापन्नमित्युदाहरणत्वं शङ्कनीयम् । राजद्वारि क्षणनिवारणं संभावितमिति तदङ्गीकृत्य प्रवृत्तस्य विषमालंकारोदाहणेष्विवातर्कितोत्कटानिष्टापत्यभावात् । किंच यत्रातर्कितोत्कटानिष्टसत्वे श्लेषमहिम्ना इष्टार्थत्व[^३]प्रतीतिस्तत्रापि समालंकारोऽप्रतिहत एव ।
उच्चैर्गजैरटनमर्थयमान एव
त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन् ।
उच्चाटनं त्वमपि लम्भयसे तदेव
मामद्य नैव विफला महतां हि सेवा ॥
अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकारस्तथापि प्राथमिक स्तुतिरूपवाच्यविवक्षायां समालंकारो न निवार्यते । एवं
[commentary]
आदौ हालाहलरूपेण हुतभुजाग्निना दत्तो हस्तावलम्बो यस्य सः । निटिलं ललाटं तत्संबन्धिमहसा नेत्राग्निना बद्धया संवबद्धया मैत्र्या निरूढः प्रसिद्धः । प्रौढो युवा
राहोर्मुखसंबन्धिभिर्विषैरन्तरङ्गीकृतः । ग्रहणकाले संपर्कातिशयादन्तरङ्गतां प्रापित
इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपत्वम् ॥ ९२ ॥ भेदान्तरमाह -- विनेति ॥ अनिष्टं विना यमर्थं कर्तुमुद्यतस्तत्सिद्धिरपि सममित्यनुवृत्त्या योज्यम् । यदर्थमिति पाठे यश्चासावर्थश्चेत्यर्थः ॥ युक्त इति ॥ वारणं निवारणम् । वारणो युक्तो न स्यादपितु स्यादेवेत्यर्थः । शोभत इति क्वचित्पाठः साधुरेव । अपिसंगृहीतस्यापिशब्दसंगृहीतस्य ।नर्मवचनं परिहासवचनम् । अत्रेष्टावाप्तिः श्लेषकल्पिता बोध्या ॥ इष्टार्थत्वप्रतीतिरिति ॥ इष्टार्थत्वेन प्रतीतिरित्यर्थः ॥ अप्रतिहत इति ॥ अनिष्टस्येष्टाभिन्नत्वेन ज्ञानकालेऽनिष्टत्वेनाप्रतिभासादिति भावः ॥ उच्चैरिति ॥ गजैरटनं तदारोहणपूर्वकं गमनम् ।
इह त्वन्नगरे उषितोऽस्मि वासं कृतवानस्मि । तदेव मत्प्रार्थ्यमानमेव । उच्चाटनं दूरनिरसनमेव । उच्चैर्गजैरटनं प्रति मां लम्भयसे प्रापयसि । हि यस्मात् महतां सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहेण विषमालंकारस्फूर्त्या निन्दायां पर्यवसितम् । एतेन वैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दामूलत्वेन तद्रूपत्वाभा-
[^१] 'विना यत्नेन तत्सिद्धिर्यदर्थम्'.
[^२] 'जातस्ते', ; 'शोभते'.
[^३] 'प्रतिपत्ति:तिः'.
[^१]विनानिष्टं च तत्सिद्धिर्यमर्थं कर्तुमुद्यतः ।
युक्तो वारणलाभोऽयं स्या[^२]न्न ते वारणार्थिनः ॥ ९३ ॥
इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपिसंगृहीतस्य त्रिविधस्यापि विषमस्य प्रतिद्वन्द्वि । इष्टावाप्तेरनिष्टस्याप्रसङ्गाच्च । अत्र गजार्थितया राजानमुपसर्पन्तं तद्दौवारिकैर्वार्यमाणं प्रति नर्मवचनमुदाहरणम् । नचात्र निवारणमनिष्टमापन्नमित्युदाहरणत्वं शङ्कनीयम् । राजद्वारि क्षणनिवारणं संभावितमिति तदङ्गीकृत्य प्रवृत्तस्य विषमालंकारोदाहणेष्विवातर्कितोत्कटानिष्टापत्यभावात् । किंच यत्रातर्कितोत्कटानिष्टसत्वे श्लेषमहिम्ना इष्टार्थत्व[^३]प्रतीतिस्तत्रापि समालंकारोऽप्रतिहत एव ।
उच्चैर्गजैरटनमर्थयमान एव
त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन् ।
उच्चाटनं त्वमपि लम्भयसे तदेव
मामद्य नैव विफला महतां हि सेवा ॥
अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकारस्तथापि प्राथमिक
[commentary]
आदौ हालाहलरूपेण हुतभुजाग्निना दत्तो हस्तावलम्बो यस्य सः । निटिलं ललाटं तत्संबन्धिमहसा नेत्राग्निना बद्धया सं
राहोर्मुखसंबन्धिभिर्विषैरन्तरङ्गीकृतः । ग्रहणकाले संपर्कातिशयादन्तरङ्गतां प्रापित
इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपत्वम् ॥ ९२ ॥ भेदान्तरमाह -- विनेति ॥ अनिष्टं विना यमर्थं कर्तुमुद्यतस्तत्सिद्धिरपि सममित्यनुवृत्त्या योज्यम् । यदर्थमिति पाठे यश्चासावर्थश्चेत्यर्थः ॥ युक्त इति ॥ वारणं निवारणम् । वारणो युक्तो न स्यादपितु स्यादेवेत्यर्थः । शोभत इति क्वचित्पाठः साधुरेव । अपिसंगृहीतस्यापिशब्दसंगृहीतस्य ।नर्मवचनं परिहासवचनम् । अत्रेष्टावाप्तिः श्लेषकल्पिता बोध्या ॥ इष्टार्थत्वप्रतीतिरिति ॥ इष्टार्थत्वेन प्रतीतिरित्यर्थः ॥ अप्रतिहत इति ॥ अनिष्टस्येष्टाभिन्नत्वेन ज्ञानकालेऽनिष्टत्वेनाप्रतिभासादिति भावः ॥ उच्चैरिति ॥ गजैरटनं तदारोहणपूर्वकं गमनम् ।
इह त्वन्नगरे उषितोऽस्मि वासं कृतवानस्मि । तदेव मत्प्रार्थ्यमानमेव । उच्चाटनं दूरनिरसनमेव । उच्चैर्गजैरटनं प्रति मां लम्भयसे प्रापयसि । हि यस्मात् महतां सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहेण विषमालंकारस्फूर्त्या निन्दायां पर्यवसितम् । एतेन वैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दामूलत्वेन तद्रूपत्वाभा-
[^१] 'विना यत्नेन तत्सिद्धिर्यदर्थम्'.
[^२] 'जातस्ते'
[^३] 'प्रतिपत्