2023-02-17 12:58:58 by ambuda-bot
This page has not been fully proofread.
११०
कुवलयानन्दः ।
समालंकारः ३९
समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः ।
स्वानुरूपं कृतं संझ हारेण कुचमण्डलम् ॥ ९१ ॥
[समालंकारः ३९
प्रथमविषमप्रतिद्वन्द्वीदं समम् । यथावा-
कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् ।
पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥
चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितघटनासंविधाता विधाता ।
यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
यञ्चैतस्याः कवलनकलाकोविदः काकलोकः ॥
पूर्व स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ ९१ ॥
सारूप्यमपि कार्यस्य कारणेन समं विदुः ।
नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ॥ ९२ ॥
इदं द्वितीयं विषमप्रतिद्वन्द्वि समम् । यथावा-
यथावा-
दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्णैस्तम् ।
यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥
आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो
बाल्ये शम्भोर्निटिलमहसा बद्धमैत्रीनिरूढः ।
प्रौढो राहोरपि मुखविपेणान्तरङ्गीकृतो यः
सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतत् ॥
सममिति ॥ अनुरूपयोरियनन्तरं संबन्धस्येति शेषः । परस्परमनुरूपयोः
संवन्धस्य वर्णनं समं नामालंकारः । सद्म स्थानम् ॥ कौमुदीति ॥ शशिखण्डम-
ण्डनं चन्द्रकलाभूषणं हरम् ॥ चित्रमिति ॥ अत्र चित्रवतशब्दयोर्वीप्सा विषया-
तिशयद्योतनाय । परिणतं पक्कम् । स्फीतिः समृद्धिः । एतस्याः फलसमृद्धेः कवल
नकला भक्षणचातुर्यं तत्र कोविदः पण्डितः ॥ ९१ ॥ सारूप्यमपीति ॥ कार्यस्य
कारणेन सारूप्यमपि समालंकारः ॥ नीचेति ॥ नीचप्रवणता नीचासक्तता । ज-
लजायाः समुद्ररूपजलाज्जातायाः ॥ उचितेति ॥ जलस्य तादृशत्वादिति भावः ॥
दवेति ॥ घनतां मेघरूपतां वर्षैर्जलवर्षणैः । शमयति नाशयति । हि यस्मात्सोऽपि
दवदहनोऽपि दवमेव खोत्पादकं विनिर्दहति । तथाच कारणस्य खोत्पादकनाश-
कत्वात्कार्यस्यापि धूमस्य तथात्वमुचितमित्यर्थः ॥ आदाविति ॥ विरहिण्या इय
मुक्तिः । सोऽयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः । यः
१ 'वर्ण्यते यत्र'. २ 'स्वस्य हारेण'. ३ ' कार्य स्यात्कारणेन'. ४ 'लक्ष्मी-
जेलजाया: '.