This page has been fully proofread twice.

समालंकारः ३९
 
समं स्या[^१]द्वर्णनं यत्र द्वयोरप्यनुरूपयोः ।
स्वानुरूपं कृतं स[^२]द्म हारेण कुचमण्डलम् ॥ ९१ ॥
 
प्रथमविषमप्रतिद्वन्द्वीदं समम् । यथावा --
 
कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् ।
पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥
 
चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितघटनासंविधाता विधाता ।
यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥
 
पूर्वं स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ ९१ ॥
 
सारूप्यमपि का[^३]र्यस्य कारणेन समं विदुः ।
नीचप्रवणता ल[^४]क्ष्मि जलजायास्तवोचिता ॥ ९२ ॥
 
इदं द्वितीयं विषमप्रतिद्वन्द्वि समम् । यथावा --
 
दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षैंषैस्तम् ।
यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥
 
यथावा --
 
आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो
बाल्ये शम्भोर्निटिलमहसा बद्धमैत्रीनिरूढः ।
प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः
सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतत् ॥
 
[commentary]
 
सममिति ॥ अनुरूपयोरित्यनन्तरं संबन्धस्येति शेषः । परस्परमनुरूपयोः संबन्धस्य वर्णनं समं नामालंकारः । सद्म स्थानम् ॥ कौमुदीति ॥ शशिखण्डमण्डनं चन्द्रकलाभूषणं हरम् ॥चित्रमिति ॥ अत्र चित्रबतशब्दयोर्वीप्सा विषयातिशयद्योतनाय । परिणतं पक्वम् । स्फीतिः समृद्धिः । एतस्याः फलसमृद्धेः कवलनकला भक्षणचातुर्यं तत्र कोविदः पण्डितः ॥ ९१ ॥ सारूप्यमपीति ॥ कार्यस्य कारणेन सारूप्यमपि समालंकारः ॥ नीचेति ॥ नीचप्रवणता नीचासक्तता । जलजायाः समुद्ररूपजलाज्जातायाः ॥ उचितेति ॥ जलस्य तादृशत्वादिति भावः ॥ दवेति ॥ घनतां मेघरूपतां वर्षैर्जलवर्षणैः । शमयति नाशयति । हि यस्मात्सोऽपि दवदहनोऽपि दवमेव खोस्वोत्पादकं विनिर्दहति । तथाच कारणस्य खोस्वोत्पादकनाशकत्वात्कार्यस्यापि धूमस्य तथात्वमुचितमित्यर्थः ॥ आदाविति ॥ विरहिण्या इयमुक्तिः । सोऽयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः । यः
 
[^१] 'वर्ण्यते यत्र'.
[^२] 'स्वस्य हारेण'.
[^३] 'कार्यं स्यात्कारणेन'.
[^४] 'लक्ष्मीर्जलजाया:याः'.