This page has been fully proofread once and needs a second look.

११०
 
कुवलयानन्दः ।
 
समालंकारः ३९
 

 
समं स्या[^१]द्वर्णनं यत्र द्वयोरप्यनुरूपयोः ।

स्वानुरूपं कृतं संझस[^२]द्म हारेण कुचमण्डलम् ॥ ९१ ॥
 
[समालंकारः ३९
 

 
प्रथमविषमप्रतिद्वन्द्वीदं समम् । यथावा -
-
 
कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् ।

पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते ॥

 
चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
 

जातो दैवादुचितघटनासंविधाता विधाता ।

यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
 
यञ्

यच्
चैतस्याः कवलनकलाकोविदः काकलोकः ॥

 
पूर्वं स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ ९१ ॥

 
सारूप्यमपि का[^३]र्यस्य कारणेन समं विदुः ।

नीचप्रवणता ल[^४]क्ष्मि जलजायास्तवोचिता ॥ ९२ ॥
 

 
इदं द्वितीयं विषमप्रतिद्वन्द्वि समम् । यथावा -
यथावा
-

 
दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्णैषैंस्तम् ।

यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥
 

 
यथावा --
 
आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो

बाल्ये शम्भोर्निटिलमहसा बद्धमैत्रीनिरूढः ।

प्रौढो राहोरपि मुखविपेषेणान्तरङ्गीकृतो यः

सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतत् ॥

 
[commentary]
 
सममिति ॥ अनुरूपयोरित्यनन्तरं संबन्धस्येति शेषः । परस्परमनुरूपयोः
संन्धस्य वर्णनं समं नामालंकारः । सद्म स्थानम् ॥ कौमुदीति ॥ शशिखण्डम-
ण्डनं चन्द्रकलाभूषणं हरम् ॥ चित्रमिति ॥ अत्र चित्रतशब्दयोर्वीप्सा विषया-
तिशयद्योतनाय । परिणतं पक्म् । स्फीतिः समृद्धिः । एतस्याः फलसमृद्धेः कवल
नकला भक्षणचातुर्यं तत्र कोविदः पण्डितः ॥ ९१ ॥ सारूप्यमपीति ॥ कार्यस्य
कारणेन सारूप्यमपि समालंकारः ॥ नीचेति ॥ नीचप्रवणता नीचासक्तता । ज-
लजायाः समुद्ररूपजलाज्जातायाः ॥ उचितेति ॥ जलस्य तादृशत्वादिति भावः ॥
दवेति ॥ घनतां मेघरूपतां वर्षैर्जलवर्षणैः । शमयति नाशयति । हि यस्मात्सोऽपि
दवदहनोऽपि दवमेव खोत्पादकं विनिर्दहति । तथाच कारणस्य खोत्पादकनाश-
कत्वात्कार्यस्यापि धूमस्य तथात्वमुचितमित्यर्थः ॥ आदाविति ॥ विरहिण्या इय
मुक्तिः । सोऽयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः । यः
 

 
[^
] 'वर्ण्यते यत्र'.
[^
] 'स्वस्य हारेण'.
[^
] ' कार्यं स्यात्कारणेन'.
[^
] 'लक्ष्मी-
जे
र्जलजाया: '.