This page has not been fully proofread.

विषमालंकारः ३८] अलंकारचन्द्रिकासहितः ।
 
१०९
 
अत्राद्यश्लोके सूर्यकिरणानां रात्रिष्वग्निप्रवेशनमागमसिद्धम् । सूर्यस्य नि-
जकिरणेषु भगवच्चरणारुणिमप्रेप्सया तत्कृतं तेषामनौ प्रतापनं परिकल्प्य
तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतनाराचानामिवाग्निसंतापनप्रयुक्तारु-
णिमानुवृत्तिं परिकल्प्य सूर्यस्य महतापि प्रयत्नेन तात्कालिकेष्टावाप्तिरेव जा
यते न सार्वकालिकेष्टावाप्तिरिति दर्शितम् । द्वितीय श्लोके चन्द्रस्य भगवन्मु-
खलक्ष्मीं लिप्समानस्य सुहृत्त्वेन मित्रशब्दश्लेपवशात्सूर्य परिकल्प्य तत्किर-
णस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहृत्पाणेर्भगवन्मुखलक्ष्मी-
निधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तथा भ
गवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्पर्शरूपं च परिकल्प्यैतावतापि प्र
यत्नेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिजयते न सार्वकालिके ति
दर्शितम् । क्वचिदिष्टानवाप्तावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः ।
यथावा-
बल्लालक्षोणिपाल त्वदहितनगरे संचरन्ती किराती
 
रखान्यादाय कीर्णान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी ।
क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
श्वासामोद प्रसक्तैर्मधुकरपटलैर्धूमशङ्कां करोति ॥
 
अत्र प्रभूताग्निसंपादनोद्योगात्तत्संपादनालाभेऽपि तल्लाभो भ्रमोपन्यास-
मुखेन निबद्धः ॥
 
जप्रतुत
प्रशंसा
 
गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मित्रकरा: सूर्यकिरणाः सुहृत्पाणयश्च
तेषामुपक्लृप्त्या लाभेन त्वद्वऋस्य कान्ति लब्ध्वापि क्रमेण हीयमानः क्षीयमाणः सन्
अनीत्या उपचितां प्रवृद्धां श्रियमाशु नाशो यस्यास्तां शंसति कथयतीत्यन्वयः ॥
अत्रेति ॥ आगमसिद्धं 'तस्माद्दिवाग्निरादित्यं प्रविशति रात्रावादित्यस्तम्' इति
श्रुतिसिद्धं प्रवेशनं तत्कृतं सूर्यकृतं तेषां किरणानाम नौ प्रतापनरूपं परिकल्प्य
उत्प्रेक्ष्य । एवं तेषां किरणानामरुणिमानमारक्तत्वं च अरुणिमानुवृत्तिरूपं परिकल्प्य
इति दर्शितमित्यन्वयः । एवमग्रेऽपि सुहृत्त्वेन सूर्य परिकल्प्य तत्किरणचन्द्रानु-
प्रवेशं च शास्त्रसिद्धं सुहृत्पाणेर्यथोक्त विशेषण विशिष्टस्य चन्द्रस्पर्शरूपं च परिकल्प्य
इति दर्शितमित्यन्वयः ॥ बल्लालेति ॥ हे एतन्नामक भूपाल, वच्छत्रुनगरे
संचरन्ती भिल्ली प्रकीर्णानि रत्नान्यादाय उरुतरा महती या खदिराङ्गारस्य शङ्का
भ्रान्तिस्तया व्याकुलाङ्गी तदुपरि श्रीखण्डकाष्ठशकलं क्षित्वा मुकुलीभूतनेत्रा
फूत्कारं कुर्वती सती श्वासपरिमलेन प्रसक्तैरागतैमरसमूहैर्धूमशङ्कां करोतीत्य-
न्वयः ॥ प्रभूतेति ॥ बहुलेत्यर्थः । एतेषु च सर्वेषूत्पायोत्पादकभावरूपसंबन्ध-
गर्भेषु प्रभेदेषु कार्यकारणयोः क्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्क्कचिचे-
ष्टोत्पादकत्वेनाभिमतस्य कारणस्येष्टानवाह्यनिष्टावाप्तिरूप कार्येणानुरूप्याभावा-
त्सामान्यलक्षणसमन्वयो बोध्यः ॥ ९० ॥ इति विषमालंकारप्रकरणम् ॥ ३८ ॥