This page has been fully proofread twice.

अत्राद्यश्लोके सूर्यकिरणानां रात्रिष्वग्निप्रवेशनमागमसिद्धम् । सूर्यस्य निजकिरणेषु भगवच्चरणारुणिमप्रेप्सया तत्कृतं तेषामनग्नौ प्रतापनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतनाराचानामिवाग्निसंतापनप्रयुक्तारुणिमानुवृत्तिं परिकल्प्य सूर्यस्य महतापि प्रयत्नेन तात्कालिकेष्टावाप्तिरेव जायते न सार्वकालिकेष्टावाप्तिरिति दर्शितम् । द्वितीयश्लोके चन्द्रस्य भगवन्मुखलक्ष्मीं लिप्समानस्य सुहृत्त्वेन मित्रशब्दश्लेवशात्सूर्यं परिकल्प्य तत्किरणस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहृत्पाणेर्भगवन्मुखलक्ष्मीनिधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तथा भगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्पर्शरूपं च परिकल्प्यैतावतापि प्रयत्नेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेति दर्शितम् । क्वचिदिष्टानवाप्तावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः ।
 
यथावा --
 
बल्लालक्षोणिपाल त्वदहितनगरे संचरन्ती किराती
रत्नान्यादाय कीर्णान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी ।
क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
श्वासामोदप्रसक्तैर्मधुकरपटलैर्धूमशङ्कां करोति ॥
 
अत्र प्रभूताग्निसंपादनोद्योगात्तत्संपादनालाभेऽपि तल्लाभो भ्रमोपन्यासमुखेन निबद्धः ॥
 
[commentary]
 
गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मित्रकरा:राः सूर्यकिरणाः सुहृत्पाणयश्च तेषामुपक्लृप्त्या लाभेन त्वद्वक्त्रस्य कान्तिं लब्ध्वापि क्रमेण हीयमानः क्षीयमाणः सन् अनीत्या उपचितां प्रवृद्धां श्रियमाशु नाशो यस्यास्तां शंसति कथयतीत्यन्वयः ॥ अत्रेति ॥ आगमसिद्धं 'तस्माद्दिवाग्निरादित्यं प्रविशति रात्रावादित्यस्तम्' इति श्रुतिसिद्धं प्रवेशनं तत्कृतं सूर्यकृतं तेषां किरणानामग्नौ प्रतापनरूपं परिकल्प्य उत्प्रेक्ष्य । एवं तेषां किरणानामरुणिमानमारक्तत्वं च अरुणिमानुवृत्तिरूपं परिकल्प्य इति दर्शितमित्यन्वयः । एवमग्रेऽपि सुहृत्त्वेन सूर्यं परिकल्प्य तत्किरणचन्द्रानुप्रवेशं च शास्त्रसिद्धं सुहृत्पाणेर्यथोक्तविशेषणविशिष्टस्य चन्द्रस्पर्शरूपं च परिकल्प्य इति दर्शितमित्यन्वयः ॥ बल्लालेति ॥ हे एतन्नामक भूपाल, त्वच्छत्रुनगरे संचरन्ती भिल्ली प्रकीर्णानि रत्नान्यादाय उरुतरा महती या खदिराङ्गारस्य शङ्का भ्रान्तिस्तया व्याकुलाङ्गी तदुपरि श्रीखण्डकाष्ठशकलं क्षिप्त्वा मुकुलीभूतनेत्रा फूत्कारं कुर्वती सती श्वासपरिमलेन प्रसक्तैरागतैर्भ्रमरसमूहैर्धूमशङ्कां करोतीत्यन्वयः ॥ प्रभूतेति ॥ बहुलेत्यर्थः । एतेषु च सर्वेषूत्पायोत्पादकभावरूपसंबन्धगर्भेषु प्रभेदेषु कार्यकारणयोः क्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्क्वचिच्चेष्टोत्पादकत्वेनाभिमतस्य कारणस्येष्टानवाप्त्यनिष्टावाप्तिरूपकार्येणानुरूप्याभावात्सामान्यलक्षणसमन्वयो बोध्यः ॥ ९० ॥ इति विषमालंकारप्रकरणम् ॥ ३८ ॥