2023-02-17 12:58:58 by ambuda-bot
This page has not been fully proofread.
१०८
कृष्यां दहन्नपि खलु क्षितिमिन्धनेदो
बीजप्ररोहजननीं दहनः करोति ॥
अत्र परानिष्टप्रापणरूपेष्टानवाप्तिः
पुरुषार्थपुत्रलाभावश्यंभावगर्भतया
कुवलयानन्दः ।
नचित्स्वेष्टसिद्ध्यर्थं नियुक्तेनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्यैवेष्टं साध्यते तत्रा-
पीष्टानवाप्तिरूपमेव विषमम् । यथा-
यथावा-
[ विषमालंकार: ३८
यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता ।
सख्यः पश्यत मौढ्यं मे विपाकं वा विधेरमुम् ॥
तस्मिन्नेव लयं गतेति नायके दूत्याः स्वाच्छन्द्यं दर्शितम् । यथावा-
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्रैव रमते हताः पाणिनिना वयम् ॥
तत्तु
-
। स्वतोऽनिष्टस्यापि मुनिशापस्य महा-
दशरथेष्टत्वेन समर्थितत्वात् । यत्र के
-
एतानि सर्वथैवेष्टानवाप्तेरुदाहरणानि । कदाचिदिष्टावाप्तिपूर्वकं तदनवा
तिर्यथा मदीये वरदराजस्तवे-
भानुर्निशासु भवदङ्गिमयूखशोभा-
लोभात्प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धते हुतवहात्क्षणलुप्तरागे
तापं भजत्यनुदिनं स हि मन्दतापः ॥
-
त्वद्वसाम्यमयमम्बुजकोशमुद्रा-
भङ्गात्ततत्सुषममित्रकरोपक्कृया ।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥
शापे दत्ते तं प्रति दशरथस्येयमुक्तिः । अदृष्टपुत्रमुखपङ्कजशोभे मयि भगवता
त्वया पातितोऽयं शापोऽपि सानुग्रहो भवति । खलु निश्चितम् । इन्धनै रिद्धो दीप्तो
दहनः कृषियोग्यां क्षितिं दहनपि वीजाङ्कुरजननीं करोतीति दृष्टान्तः ॥ परेति ॥
परस्य दशरथस्यानिष्टप्रापणरूपं यदिष्टं तस्यानवाप्तिरर्थात्तापसस्येत्यर्थः । कुतस्त-
त्राह – स्वत इति ॥ नियोक्तुः प्रेषयितुः ॥ यं प्रतीति ॥ मौढ्यं मूढत्वम् ।
एवंविधायामाप्तत्वबुद्धेः । विधेर्दैवस्य विपाकं परिपाकम् । फलमिति यावत् ॥
भानुरिति ॥ हे हरे, भानुः सूर्यो भवचरणकिरणशोभाया लोभात्वीय किरणस
मूहं निशासु प्रभातपर्यन्तं प्रताप्य रात्रौ सूर्यकिरणानाममौ प्रवेशात्तापयित्वा
तत्र तस्मिन्किरणोत्करे हुतवहादः सकाशादुद्धते सति रक्ततादर्शनान्मन्दसं-
तापः सन् क्षणमात्रेण लुप्तरागे नष्टलौहित्ये सत्यनुदिनं तापं भजतीत्यन्वयः ॥
त्वद्वक्रेति ॥ हे हरे, अयं विधुः पर्वणि पूर्णिमायामम्बुजस्य कोशः कुङ्मलः स-
एवाम्बुजरूपभाण्डारगृहं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य भङ्गेनात्ता