This page has been fully proofread twice.

कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो
बीजप्ररोहजननीं दहनः करोति ॥
 
अत्र परानिष्टप्रापणरूपेष्टानवाप्तिः । स्वतोऽनिष्टस्यापि मुनिशापस्य महापुरुषार्थपुत्रलाभावश्यंभावगर्भतया दशरथेष्टत्वेन समर्थितत्वात् । यत्र केनचित्स्वेष्टसिद्ध्यर्थं नियुक्तेनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्यैवेष्टं साध्यते तत्रापीष्टानवाप्तिरूपमेव विषमम् । यथा --
 
यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता ।
सख्यः पश्यत मौढ्यं मे विपाकं वा विधेरमुम् ॥
 
तस्मिन्नेव लयं गतेति नायके दूत्याः स्वाच्छन्द्यं दर्शितम् । यथावा --
 
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥
 
एतानि सर्वथैवेष्टानवाप्तेरुदाहरणानि । कदाचिदिष्टावाप्तिपूर्वकं तदनवाप्तिर्यथा मदीये वरदराजस्तवे --
 
भानुर्निशासु भवदङ्गिघ्रिमयूखशोभा-
लोभात्प्रताप्य किरणोत्करमाप्रभातम् ।
तत्रोद्धते हुतवहात्क्षणलुप्तरागे
तापं भजत्यनुदिनं स हि मन्दतापः ॥
 
यथावा --
 
त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा-
भङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या ।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥
 
[commentary]
 
शापे दत्ते तं प्रति दशरथस्येयमुक्तिः । अदृष्टपुत्रमुखपङ्कजशोभे मयि भगवता त्वया पातितोऽयं शापोऽपि सानुग्रहो भवति । खलु निश्चितम् । इन्धनैरिद्धो दीप्तो दहनः कृषियोग्यां क्षितिं दहन्नपि बीजाङ्कुरजननीं करोतीति दृष्टान्तः ॥ परेति ॥ परस्य दशरथस्यानिष्टप्रापणरूपं यदिष्टं तस्यानवाप्तिरर्थात्तापसस्येत्यर्थः । कुतस्तत्राह -- स्वत इति ॥ नियोक्तुः प्रेषयितुः ॥ यं प्रतीति ॥ मौढ्यं मूढत्वम् । एवंविधायामाप्तत्वबुद्धेः । विधेर्दैवस्य विपाकं परिपाकम् फलमिति यावत् ॥ भानुरिति ॥ हे हरे, भानुः सूर्यो भवच्चरणकिरणशोभाया लोभात्स्वीयकिरणसमूहं निशासु प्रभातपर्यन्तं प्रताप्य रात्रौ सूर्यकिरणानामग्नौ प्रवेशात्तापयित्वा तत्र तस्मिन्किरणोत्करे हुतवहादग्नेः सकाशादुद्धते सति रक्ततादर्शनान्मन्दसंतापः सन् क्षणमात्रेण लुप्तरागे नष्टलौहित्ये सत्यनुदिनं तापं भजतीत्यन्वयः ॥ त्वद्वक्त्रेति ॥ हे हरे, अयं विधुः पर्वणि पूर्णिमायामम्बुजस्य कोशः कुड्मलः सएवाम्बुजरूपभाण्डारगृहं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य भङ्गेनात्ता