This page has been fully proofread once and needs a second look.

विषमालंकारः३८] अलंकारचन्द्रिकासहितः ।
 
पद्मातपत्ररसिके सरसीरुहस्य
 

किं बीजमर्पयितुमिच्छसि वापिकायाम् ।

काल: कलिर्जगदिदं न कृतज्ञमज्ञे
 

स्थित्वा हरिष्यति मुखस्य तवैव लक्ष्मीम् ॥
 

 
अत्र पद्मातपत्रलिप्सया पद्मबीजावापं कृतवत्यास्तल्लाभोऽस्त्येव किंतु मुख-
शोभाहरणरूपोत्कटानिष्टप्रतिलम्भः । केवलेष्टानवाप्तिर्यथा -
-
 
खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः ।

भरभुग्नविततबाहुषु गोपेषु हसन्हरिर्जयति ॥
 

 
अत्र यद्यपि शैलस्योपरिपतनरूपानिष्टावाप्तिः प्रसक्ता तथापि भगवत्कराम्बुजसंसर्गमहिम्ना सा न जातेति शैलधारणरूपेष्टानवाप्तिमात्रम् । यथावा --
 
लोके कलङ्कमपहातुमयं मृगाङ्को
 

जातो मुखं तव पुनस्तिलकच्छलेन ।

तत्रापि कल्पयसि तन्वि कलङ्करेखां
 

नार्यः समाश्रितजनं हि कलङ्कयन्ति ॥
 
-
 

 
अत्र यद्यपि शैलस्योरानिष्टपरिपतनरूपानिष्टावाप्तिः प्रसक्ता तथापि भगवत्करा-
म्बुजसंसर्गमहिम्ना सा न जातेति शैलधारण
हाररूपेष्टानवाप्तिमात्रम्तिः । यथावा -
अत्रानिष्टपरिहाररूपेष्टानवाप्तिः । यथावा
-

 
शापोऽप्यदृष्टतनयाननपद्मशोभे
 
१०७
 

सानुग्रहो भगवता मयि पातितोऽयम् ।
 
-
 

 
[commentary]
 
पद्मेति ॥ दयितां प्रति नायकोक्तिः । पद्मस्यातपत्रं छत्रं तत्र रसिके हे तन्वि,
वापिकायां सरसीरुहस्य पद्मस्य कन्दमर्पयितुं किमितीच्छसि । यतः हे अज्ञे, क-
लियुगरूपः कालः, इदं जगत्कृतज्ञं च न भवति । ततः किं तत्राह । इदं सरसी-
रुहं स्थित्वा तवैव मुखस्य लक्ष्मीमीं हरिष्यति न त्वन्यस्या इत्यर्थः ॥ खिन्नो-
ऽसीति । बिभृमो धारयामः । वदत्सु गोपेषु शिथिलौ भुजौ यस्य सः । भरेण
शैलभारेण भुग्ना वक्राः वितता विस्तीर्णा बाहवो येषां तथाभूतेषु सत्सु हसन् ॥
अत्रेति ॥ नच भरभुग्नेत्यनेन वाबाहुगतास्थिसन्धिभग्नरूपानिष्टप्राप्तेः साक्षादुपात्त-
त्वात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्र
मित्युच्यत इति वाच्यम् । अस्थिसंधिभङ्गस्याशब्दार्थवाद्भगवद्भुजशैथिल्यप्रयुक्त-
भाराधिक्येन वक्रतामात्रस्य शब्दोपात्तस्य च क्लेशविशेषानाधायकत्वेनानिष्टव्यप-
देशानर्हत्वात्, सुहृद्भूतानां गोपानामनिष्टप्राप्तौ हास्यानुपपत्तेश्च । अतएव न स-
र्वाङ्गचूर्णीभावोऽपि गम्यः, गर्वप्रसक्त्यभावाच्च न तदपहारोऽपि । यतश्चिरका
लशैलधारणजन्यश्रमपरिजिहीर्षया गोपानां प्रवृत्तिरिहावगम्यत इति निरवद्यम् ॥
लोक इति ॥ हे तन्वि, लोके प्रसिद्धं कलङ्कमपहातुं निवारयितुं मृगाङ्कस्तव
मुखं जातस्तत्रापि पुनस्तिलकव्याजेन कलङ्करेखां त्वं कल्पयसि करोषि । हि
यस्मान्नार्यः समाश्रितजनं
स्वाश्रितजनं कलङ्किनं कुर्वन्तीत्यन्वयः ॥ शापो-
ऽपीति ॥ मृगयायां प्रमादतो हतपुत्रेण तापसेन त्वमपि पुत्रशोकान्मरिष्यसीति