2023-04-26 07:04:08 by Bharadwajraki
This page has been fully proofread twice.
इष्टार्थमुद्दिश्य किंचित्कर्मारब्धवतो न केवलमिष्टस्यानवाप्तिः किंतु ततोऽनिष्टस्यापि प्रतिलम्भश्चेत्तदपि विषमम् । यथा भक्ष्यप्रेप्सया सर्पपेटिकां दृष्ट्वा प्रविष्टस्य मूषकस्य न केवलं भक्ष्यालाभः किंतु स्वरूपहानिरपीति । यथावा --
गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया ।
श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥
इदमर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तावनिष्टप्रतिलम्भे चोदाहरणम् ।
अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात् । तदुभयं यथा --
दिवि श्रितवतश्चन्द्रं सैंहिकेयभयाद्भुवि ।
शशस्य पश्य तन्वङ्गि साश्रयस्य ततो भयम् ॥
अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किंतु साश्रयस्थाप्यनर्थावाप्तिरिति दर्शितम् । परानिष्टप्रापण रूपेष्टार्थसमुद्यमात् । तदुभयं यथा --
दिधक्षन्मारुतेर्वालं तमादीप्यद्दशाननः ।
आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत् ॥
पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति
लोकेऽनिष्टावाप्तेरपिशब्दसंगृहीताया इष्टानवाप्तेश्च प्रत्येकमपि विषमपदेनान्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं लक्षितं भवति ।
तत्र केवलानिष्टप्रतिलम्भो यथा --
[commentary]
द्विषममित्यर्थः । अपिना इष्टानवाप्तिः संगृह्यते । चकारः पूर्वोक्तविषमसमुच्चयार्थः ॥ भक्ष्येति ॥ अहिमञ्जूषां सर्पपेटिकां दृष्ट्वा भक्ष्यस्याशया प्रविष्ट आखुर्मूषकस्तेनाहिना भक्षित इत्यन्वयः । यत्तु प्रविष्ट इत्यस्यागम्यमानत्वान्न्यूनपदत्वमिति केनचिदुक्तं तदभिनिवेशदुष्टस्वहृदयानुभवविकत्थनमित्युपेक्षणीयम् । अनिष्टस्यापि प्रतिलम्भ इत्यत्रापिर्भिन्नक्रमो बोध्यः ॥ गोपाल इति ॥ हे कृष्ण, त्वं गोपाल इति हेतोर्बहुदुग्धवाञ्छया श्रित आश्रितः । त्वया तु मातृस्तनदुग्धमप्यलभ्यं कृतम् । मुक्तिदानेनेति भावः । पूर्वत्रेष्टानवाप्तिरर्थगम्या इह त्वपिशब्दगम्येति विशेषः । इदमिति उदाहरणमिति च जातावेकवचनम् ॥ दिवीति ॥ भुवि सैंहिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य साश्रयस्याश्रयसहितस्य ततः सैंहिकेयाद्राहोर्भयमेतत् हे तन्वङ्गि, पश्येत्यन्वयः ॥ परेति ॥ परस्यानिष्टावाप्तिरूपो य इष्टार्थ इत्यर्थः । तदुभयमिष्टानवाप्त्यनिष्टावाप्तिद्वयम् ॥ दिधक्षन्निति ॥ दशाननो रावणः मारुतेर्हनुमतो वालं पुच्छं दग्धुमिच्छंस्तं वालमादीप्यद्दीपयति स्मेत्यर्थः ॥ प्रत्येकमपीति ॥ अपिना इष्टानवाप्तिसमुच्चिताया अनिष्टावाप्तेर्विषमपदेनान्वयः समुच्चीयते । विषमपदेन विषमपरामर्शकेन तत्पदेन । तथाच तात्पर्यबलाद्वाक्यमावर्तनीयमिति भावः । यत्त्वनिष्ट-
स्यैव तदुत्तरापिशब्दसमुच्चिताया इष्टानवाप्तेरप्याप्नोतिनैवान्वयो नतु तत्पदपरामृष्टेन विषमेणाव्युत्पत्तेरिति तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तं वेदितव्यम् ॥
गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया ।
श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥
इदमर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तावनिष्टप्रतिलम्भे चोदाहरणम् ।
अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात् । तदुभयं यथा --
दिवि श्रितवतश्चन्द्रं सैंहिकेयभयाद्भुवि ।
शशस्य पश्य तन्वङ्गि साश्रयस्य ततो भयम् ॥
अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किंतु साश्रयस्थाप्यनर्थावाप्तिरिति दर्शितम् । परानिष्टप्रापण रूपेष्टार्थसमुद्यमात् । तदुभयं यथा --
दिधक्षन्मारुतेर्वालं तमादीप्यद्दशाननः ।
आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत् ॥
पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति
लोकेऽनिष्टावाप्तेरपिशब्दसंगृहीताया इष्टानवाप्तेश्च प्रत्येकमपि विषमपदेनान्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं लक्षितं भवति ।
तत्र केवलानिष्टप्रतिलम्भो यथा --
[commentary]
द्विषममित्यर्थः । अपिना इष्टानवाप्तिः संगृह्यते । चकारः पूर्वोक्तविषमसमुच्चयार्थः ॥ भक्ष्येति ॥ अहिमञ्जूषां सर्पपेटिकां दृष्ट्वा भक्ष्यस्याशया प्रविष्ट आखुर्मूषकस्तेनाहिना भक्षित इत्यन्वयः । यत्तु प्रविष्ट इत्यस्यागम्यमानत्वान्न्यूनपदत्वमिति केनचिदुक्तं तदभिनिवेशदुष्टस्वहृदयानुभवविकत्थनमित्युपेक्षणीयम् । अनिष्टस्यापि प्रतिलम्भ इत्यत्रापिर्भिन्नक्रमो बोध्यः ॥ गोपाल इति ॥ हे कृष्ण, त्वं गोपाल इति हेतोर्बहुदुग्धवाञ्छया श्रित आश्रितः । त्वया तु मातृस्तनदुग्धमप्यलभ्यं कृतम् । मुक्तिदानेनेति भावः । पूर्वत्रेष्टानवाप्तिरर्थगम्या इह त्वपिशब्दगम्येति विशेषः । इदमिति उदाहरणमिति च जातावेकवचनम् ॥ दिवीति ॥ भुवि सैंहिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य साश्रयस्याश्रयसहितस्य ततः सैंहिकेयाद्राहोर्भयमेतत् हे तन्वङ्गि, पश्येत्यन्वयः ॥ परेति ॥ परस्यानिष्टावाप्तिरूपो य इष्टार्थ इत्यर्थः । तदुभयमिष्टानवाप्त्यनिष्टावाप्तिद्वयम् ॥ दिधक्षन्निति ॥ दशाननो रावणः मारुतेर्हनुमतो वालं पुच्छं दग्धुमिच्छंस्तं वालमादीप्यद्दीपयति स्मेत्यर्थः ॥ प्रत्येकमपीति ॥ अपिना इष्टानवाप्तिसमुच्चिताया अनिष्टावाप्तेर्विषमपदेनान्वयः समुच्चीयते । विषमपदेन विषमपरामर्शकेन तत्पदेन । तथाच तात्पर्यबलाद्वाक्यमावर्तनीयमिति भावः । यत्त्वनिष्ट