This page has been fully proofread once and needs a second look.

१०६
 
कुवलयानन्दः ।
 
[ विषमालंकारः ३८
 
इष्टार्थमुद्दिश्य किंचित्कर्मारब्धवतो न केवल मिष्टस्यानवाप्तिः किंतु ततो-
ऽनिष्टस्यापि प्रतिलम्भश्चेत्तदपि विषमम् । यथा भक्ष्यप्रेप्सया सर्पपेटिकां दृष्ट्वा
प्रविष्टस्य मूषकस्य न केवलं भक्ष्यालाभः किंतु स्वरूपहानिरपीति । यथावा -
-
 
गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया ।

श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥

 
इदमर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्ताव
निष्टप्रतिलम्भे चोदाहरणम् ।
अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात् । तदुभयं यथा -
निष्टप्रतिलम्भे चोदाहरणम् ।
 
-
 
दिवि श्रितवतश्चन्द्रं सैंहिकेयभयाद्भुवि ।

शशस्य पश्य तन्वङ्गि साश्रयस्य ततो भयम् ॥
 

 
अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किंतु साश्रयस्थाप्यनर्था-
वाप्तिरिति दर्शितम् । परानिष्टप्रापण रूपेष्टार्थसमुद्यमात् । तदुभयं यथा -
-
 

 
दिधक्षन्मारुतेर्वालं तमादीप्य द्दशाननः ।

आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत् ॥
 

 
पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति

लोकेऽनिष्टावाप्तेरपिशब्दसंगृहीताया इष्टानवाप्तेश्च प्रत्येकमपि विषमपदेना-
न्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं
लक्षितं भवति ।
 

 
तत्र केवलानिष्टप्रतिलम्भो यथा -
WOOD
 
-
 
[commentary]
 
द्विषममित्यर्थः । अपिना इष्टानवाप्तिः संगृह्यते । चकारः पूर्वोक्तविषमसमुच्च-
यार्थः ॥ भक्ष्येति ॥ अहिमञ्जूषां सर्पपेटिकां दृष्ट्वा भक्ष्यस्याशया प्रविष्ट आखुर्मू-
कस्तेनाहिना भक्षित इत्यन्वयः । यत्तु प्रविष्ट इत्यस्यागम्यमानत्वान्न्यूनपदत्वमिति
केनचिदुक्तं तदभिनिवेशदुष्टस्वहृदयानुभवविकत्थन मित्युपेक्षणीयम् । अनिष्टस्यापि
प्रतिलम्भ इत्यत्रापिर्भिन्नक्रमो बोध्यः ॥ गोपाल इति ॥ हे कृष्ण, त्वं गो-
पाल इति हेतोर्बहुदुग्धवाञ्छ्या श्रित आश्रितः । त्वया तु मातृस्तनदुग्धमप्यलभ्यं
कृतम् । मुक्तिदानेनेति भावः । पूर्वत्रेष्टानवाप्तिरर्थगम्या इह त्वपिशब्दगम्येति
विशेषः । इदमिति उदाहरणमिति च जातावेकवचनम् ॥ दिवीति ॥ भुवि सैं-
हिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य
साश्रयस्याश्रयसहितस्य ततः सैंहिकेयाद्राहोर्भयमेतत् हे तन्वनिङ्गि, पश्येत्यन्वयः ॥
परेति ॥ परस्यानिष्टावाप्तिरूपो य इष्टार्थ इत्यर्थः । तदुभयमिष्टानवात्यनिष्टावा-
प्त्यनिष्टावाप्तिद्वयम् ॥ धिदिधक्षन्निति ॥ दशाननो रावणः मारुतेर्हनुमतो वालं पुच्छं दग्धु-
मिच्छंस्तं वालमादीप्यद्दीपयति स्मेत्यर्थः ॥ प्रत्येकमपीति ॥ अपिना इष्टानवा-
प्तिसमुच्चिताया अनिष्टावाप्तेर्विषमपदेनान्वयः समुच्चीयते । विषमपदेन विषम-
परामर्शकेन तत्पदेन । तथाच तात्पर्यबलाद्वाक्यमावर्तनीयमिति भावः । यत्त्वनिष्ट-

स्यैव तदुत्तरापिशब्दसमुच्चिताया इष्टानवाप्तेरप्याप्नोतिनैवान्वयो नतु तत्पदपराभृ-
मृष्टेन विषमेणाव्युत्पत्तेरिति तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तं वेदितव्यम् ॥